Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1129

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प्र꣢꣫ धारा꣣ म꣡धो꣢ अग्रि꣣यो꣢ म꣣ही꣢र꣣पो꣡ वि गा꣢꣯हते । ह꣣वि꣢र्ह꣣विः꣢षु꣣ व꣡न्द्यः꣢ ॥११२९॥

प्र । धा꣡रा꣢꣯ । म꣡धोः꣢꣯ । अ꣣ग्रियः꣢ । म꣣हीः꣢ । अ꣣पः꣢ । वि । गा꣣हते । हविः꣢ । ह꣣वि꣡ष्षु꣢ । व꣡न्द्यः꣢꣯ ॥११२९॥

Mantra without Swara
प्र धारा मधो अग्रियो महीरपो वि गाहते । हविर्हविःषु वन्द्यः ॥

प्र । धारा । मधोः । अग्रियः । महीः । अपः । वि । गाहते । हविः । हविष्षु । वन्द्यः ॥११२९॥

Samveda - Mantra Number : 1129
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्रियः) अग्रेभवः श्रेष्ठः, (हविःषु)) हविष्प्रदातृषु (हविः) उत्कृष्टो हविष्प्रदाता, (वन्द्यः) वन्दनीयः सोमः ज्ञानस्य अभिषोता विद्वान् (महीः अपः) महान्ति कर्माणि (वि गाहते) आलोडयति, ज्ञानानुकूलं कर्माण्याचरतीत्यर्थः। तस्य सकाशात् (मधोः) मधुरस्य ज्ञानरसस्य (धारा) नदी (प्र) प्रवहति। [उपसर्ग-बलाद् योग्यक्रियाध्याहारः, संहितायां ‘मधोः’ इत्यस्य विसर्गलोपश्छान्दसः] ॥२॥
Essence
स एव विद्वान् प्रशस्यो यो ज्ञानानुकूलं कर्माण्यप्याचरति, सर्वेभ्यश्च ज्ञानस्य मधुरा धाराः प्रवाहयति ॥२॥
Subject
अथ पुनरपि विद्वद्विषय एवोच्यते।
Footnote
१. ऋ० ९।७।२, ‘मध्वो॑’, ‘ह॒विष्षु॒’ इति पाठः।