Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1128

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡सृ꣢ग्र꣣मि꣡न्द꣢वः प꣣था꣡ धर्म꣢꣯न्नृ꣣त꣡स्य꣢ सु꣣श्रि꣡यः꣢ । वि꣣दाना꣡ अ꣢स्य꣣ यो꣡ज꣢ना ॥११२८॥

अ꣡सृ꣢꣯ग्रम् । इ꣡न्द꣢꣯वः । प꣣था꣢ । ध꣡र्म꣢꣯न् । ऋ꣣त꣡स्य꣢ । सु꣣श्रि꣡यः꣢ । सु꣣ । श्रि꣡यः꣢꣯ । वि꣣दानाः꣢ । अ꣣स्य । यो꣡ज꣢꣯ना ॥११२८॥

Mantra without Swara
असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः । विदाना अस्य योजना ॥

असृग्रम् । इन्दवः । पथा । धर्मन् । ऋतस्य । सुश्रियः । सु । श्रियः । विदानाः । अस्य । योजना ॥११२८॥

Samveda - Mantra Number : 1128
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सुश्रियः) सुशोभाः, (इन्दवः) तेजस्विनः, ज्ञानरसेन क्लेदकाः विद्वांसो गुरवः (ऋतस्य पथा) सत्यस्य मार्गेण (धर्मन्) धर्मे। [धर्मणि इति प्राप्ते ‘सुपां सुलुक्०’। अ० ७।१।३९ इत्यनेन विभक्तेर्लुक्।] (असृग्रम्) सृज्यन्ते, तत्परा भवन्ति, यतः ते (अस्य) धर्ममार्गस्य (योजना) योजनानि, क्रियान्वयनपद्धतीः [अत्र शेर्लोपः।] (विदानाः) जानानाः भवन्ति ॥१॥
Essence
विद्वांसो जनाः स्वयमपि सत्यस्य धर्मस्य च मार्गे चलन्तु, योजना निर्मायान्यानपि च तस्मिन् मार्गे प्रवर्तयन्तु ॥१॥
Subject
तत्रादौ विदुषां विषयमाह।
Footnote
१. ऋ० ९।७।१, ‘योज॑नम्’ इति पाठः।