Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1126

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ना꣢भा꣣ ना꣡भिं꣢ न꣣ आ꣡ द꣢दे꣣ च꣡क्षु꣢षा꣣ सू꣡र्यं꣢ दृ꣣शे꣢ । क꣣वे꣡रप꣢꣯त्य꣣मा꣡ दु꣢हे ॥११२६॥

ना꣡भा꣢꣯ । ना꣡भि꣢꣯म् । नः꣣ । आ꣢ । द꣣दे । च꣡क्षु꣢꣯षा । सू꣡र्य꣢꣯म् । दृ꣡शे꣢ । क꣣वेः꣢ । अ꣡प꣢꣯त्यम् । आ । दु꣣हे ॥११२६॥

Mantra without Swara
नाभा नाभिं न आ ददे चक्षुषा सूर्यं दृशे । कवेरपत्यमा दुहे ॥

नाभा । नाभिम् । नः । आ । ददे । चक्षुषा । सूर्यम् । दृशे । कवेः । अपत्यम् । आ । दुहे ॥११२६॥

Samveda - Mantra Number : 1126
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अहम् गुरुणा निर्दिष्टेन उपायेन (नाभा) नाभौ केन्द्रभूते अन्तरात्मनि। [सुपां सुलुक्०। अ० ७।१।३९। इति सप्तम्येकवचनस्य डादेशः।] (नः) अस्माकम् (नाभिम्) केन्द्रभूतं परमात्मानम् (आ ददे) गृह्णामि। (चक्षुषा) अन्तर्नेत्रेण (सूर्यम्) सूर्यप्रभं तं परमात्मानम् (दृशे) द्रष्टुम् प्रभवामि इति शेषः। (कवेः) काव्यकर्तुः सोमस्य परमेश्वरस्य (अपत्यम्) सन्तानं वेदकाव्यम् (आ दुहे) आ दोह्मि ॥११॥
Essence
आचार्यद्वारा वेदार्थदोहनकलां शिक्षित्वा ये वेदार्थान् दुहन्ति, वेदप्रतिपाद्यं परमेश्वरं चाराध्नुवन्ति तेषां जीवनं सफलं जायते ॥११॥
Subject
अथ गुरुप्रोक्तेन मार्गेण परमात्मसाक्षात्कारमाह।
Footnote
१. ऋ० ९।१०।८, ‘चक्षु॑श्चि॒त् सूर्ये॒ सचा॑’ इति द्वितीयः पादः।