Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1125

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣣मीचीना꣡स꣢ आशत꣣ हो꣡ता꣢रः स꣣प्त꣡जा꣢नयः । प꣣द꣡मे꣢꣯कस्य꣣ पि꣡प्र꣢तः ॥११२५॥

स꣣मीचीना꣡सः꣢ । स꣣म् । ईचीना꣡सः꣢ । आ꣣शत । हो꣡ता꣢꣯रः । स꣣प्त꣡जा꣢नयः । स꣣प्त꣢ । जा꣣नयः । पद꣢म् । ए꣡क꣢꣯स्य । पि꣡प्र꣢꣯तः ॥११२५॥

Mantra without Swara
समीचीनास आशत होतारः सप्तजानयः । पदमेकस्य पिप्रतः ॥

समीचीनासः । सम् । ईचीनासः । आशत । होतारः । सप्तजानयः । सप्त । जानयः । पदम् । एकस्य । पिप्रतः ॥११२५॥

Samveda - Mantra Number : 1125
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(समीचीनासः) सम्यग् अध्यापनादिकर्मणि व्यापृताः, (सप्तजानयः) अग्नेः सप्त ज्वालाःजायाः जायावत् प्रियाः येषां ते अग्निहोत्रिणः इत्यर्थः। [जायाया निङ्। अ० ५।४।१३४ इत्यनेन जायाशब्दान्तस्य निङादेशः।] (होतारः) विद्यायज्ञस्य होतृतुल्याः सोमाः। विद्वांसो गुरवः (एकस्य) अद्वितीयस्य परमेश्वरस्य (पदम्) स्वरूपम् (पिप्रतः) छात्राणामन्तःकरणे पूरयन्तः (आशत) विद्यागृहे व्याप्नुवन्ति ॥१०॥
Essence
गुरुशिष्याः परस्परं मिलित्वा विद्यायज्ञं साध्नुवन्तु। विविधविद्यानामध्ययनाध्यापनेन सह ब्रह्मणः स्वरूपमपि साक्षात् कुर्वन्तु कारयन्तु च ॥१०॥
Subject
अथ पुनर्गुरुशिष्यविषयमाह।
Footnote
१. ऋ० ९।१०।७, ‘आशत’, ‘सप्तजानयः’ इत्यत्र ‘आसते॒’, ‘स॒प्तजा॑मयः’।