Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1124

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣢प꣣ द्वा꣡रा꣢ मती꣣नां꣢ प्र꣣त्ना꣡ ऋ꣢ण्वन्ति का꣣र꣡वः꣢ । वृ꣢ष्णो꣣ ह꣡र꣢स आ꣣य꣡वः꣢ ॥११२४॥

अ꣡प꣢꣯ । द्वा꣡रा꣢꣯ । म꣣तीना꣢म् । प्र꣣त्नाः꣢ । ऋ꣣ण्वन्ति । कार꣡वः꣢ । वृ꣡ष्णः꣢꣯ । ह꣡र꣢꣯से । आ꣣य꣡वः꣢ ॥११२४॥

Mantra without Swara
अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः । वृष्णो हरस आयवः ॥

अप । द्वारा । मतीनाम् । प्रत्नाः । ऋण्वन्ति । कारवः । वृष्णः । हरसे । आयवः ॥११२४॥

Samveda - Mantra Number : 1124
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(प्रत्नाः) पुरातनाः ज्ञानवयोवृद्धाः (कारवः) मौखिकीनां व्यावहारिकीणां च विद्यानां शिल्पिनः, (आयवः) कर्मयोगिनो गुरुजनाः। [यन्ति क्रियाशीला भवन्ति इति आयवः। ‘छन्दसीणः’ उ० १।२ इत्यनेन इण् गतौ धातोः उण् प्रत्ययः।] (वृष्णः) सुखवर्षकस्य ज्ञानस्य (हरसे) शिष्याणामन्तरात्मनि आहरणाय (मतीनाम्) शिष्यबुद्धीनाम् (द्वारा) द्वाराणि (अप ऋण्वन्ति) अपवृण्वन्ति ॥९॥
Essence
गुरवः शिष्यबुद्धीनाम् अपावृतानि द्वाराणि समुद्घाट्य तान् गम्भीरज्ञानग्रहणक्षमान् विधाय पण्डितान् कुर्युः ॥९॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ९।१०।६।