Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1123

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣣पाना꣡सो꣢ वि꣣व꣡स्व꣢तो꣣ जि꣡न्व꣢न्त उ꣣ष꣢सो꣣ भ꣡ग꣢म् । सू꣢रा꣣ अ꣢ण्वं꣣ वि꣡ त꣢न्वते ॥११२३॥

आ꣣पाना꣡सः꣢ । वि꣣व꣡स्व꣢तः । वि꣣ । व꣡स्व꣢꣯तः । जि꣡न्व꣢꣯न्तः । उ꣣ष꣡सः꣢ । भ꣡ग꣢꣯म् । सू꣡राः꣢꣯ । अ꣡ण्व꣢꣯म् । वि । त꣣न्वते ॥११२३॥

Mantra without Swara
आपानासो विवस्वतो जिन्वन्त उषसो भगम् । सूरा अण्वं वि तन्वते ॥

आपानासः । विवस्वतः । वि । वस्वतः । जिन्वन्तः । उषसः । भगम् । सूराः । अण्वम् । वि । तन्वते ॥११२३॥

Samveda - Mantra Number : 1123
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(आपानासः) आपानाः, (ज्ञानरसस्य) कूपभूताः, (सूराः) सूर्यसमतेजस्काः सोमाः गुरवः (विवस्वतः) अन्धकारोच्छेदकस्य आदित्यस्य (उषसः) प्रभातकान्तेश्च (भगम्) श्रियम् (जिन्वन्तः) शिष्याणां हृदयेषु प्रेरयन्तः (अण्वम्२) सूक्ष्मपि विज्ञानम् (वि तन्वते) शिष्यबुद्धौ विस्तारयन्ति ॥८॥
Essence
यथोषाः सूर्यश्च रात्रेरन्धकारं विच्छिद्य भूमौ प्रकाशं जनयतस्तथैव गुरुजनाः शिष्याणामज्ञानान्धकारमपनीय सूक्ष्मतममपि विज्ञानं हस्तामलकवदाविष्कुर्वन्ति विद्याज्योतिषा च तेषामात्मानं भासयन्ति ॥८॥
Subject
अथ पुनर्गुरुशिष्यविषयो वर्ण्यते।
Footnote
१. ऋ० ९।१०।५, ‘जिन्वन्त’ इत्यत्र ‘जग॑न्त’ इति पाठः। २. अण्वं वितन्वते सूक्ष्मं वितानं कुर्वन्ति—इति वि०। अभिषववेलायामुपरमेषु शब्दं कुर्वन्ति—इति सा०।