Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1122

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡रि꣢ स्वा꣣ना꣢स꣣ इ꣡न्द꣢वो꣣ म꣡दा꣢य ब꣣र्ह꣡णा꣢ गि꣣रा꣢ । म꣡धो꣢ अर्षन्ति꣣ धा꣡र꣢या ॥११२२॥

प꣡रि꣢꣯ । स्वा꣣ना꣡सः꣢ । इ꣡न्द꣢꣯वः । म꣡दा꣢꣯य । ब꣣र्ह꣡णा꣢ । गि꣣रा꣢ । म꣡धोः꣢꣯ अ꣣र्षन्ति । धा꣡र꣢꣯या ॥११२२॥

Mantra without Swara
परि स्वानास इन्दवो मदाय बर्हणा गिरा । मधो अर्षन्ति धारया ॥

परि । स्वानासः । इन्दवः । मदाय । बर्हणा । गिरा । मधोः अर्षन्ति । धारया ॥११२२॥

Samveda - Mantra Number : 1122
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(स्वानासः) अध्यापनकाले शब्दोच्चारणतत्पराः, (इन्दवः) दीप्ताः, विद्यारसेन क्लेदकाः गुरवः (मदाय) शिष्याणाम् आनन्दाय (बर्हणा) विरोधिसिद्धान्तखण्डयित्र्या [बर्ह हिंसायाम्, चुरादिः।] (गिरा) वाचा (मधोः) मधुरस्य ज्ञानरसस्य (धारया) प्रवाहसन्तत्या (परि अर्षन्ति) शिष्यान् परिप्राप्नुवन्ति। [संहितायां ‘मधो रर्षन्ति’ इति प्राप्ते विसर्जनीयलोपश्छान्दसः] ॥७॥
Essence
शिष्यान् प्रत्यगाधप्रेमपरिप्लुता विद्वांसो गुरुजनास्तेषां हिताय तान् ज्ञानधारया सिञ्चन्ति ॥७॥
Subject
सप्तमी ऋक् पूर्वार्चिके ४८५ क्रमाङ्के आनन्दरसविषये व्याख्याता। अत्र गुरवो वर्ण्यन्ते।
Footnote
१. ऋ० ९।१०।४, ‘स्वानास’, ‘मधो’ इत्यत्र ‘सुवा॒नास॒’, ‘सुता’। साम० ४८५।