Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1121

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
रा꣡जा꣢नो꣣ न꣡ प्रश꣢꣯स्तिभिः꣣ सो꣡मा꣢सो꣣ गो꣡भि꣢रञ्जते । य꣣ज्ञो꣢꣫ न स꣣प्त꣢ धा꣣तृ꣡भिः꣢ ॥११२१॥

रा꣡जा꣢꣯नः । न । प्र꣡श꣢꣯स्तिभिः । प्र । श꣣स्तिभिः । सो꣡मा꣢꣯सः । गो꣡भिः꣢꣯ । अ꣣ञ्जते । यज्ञः꣢ । न । स꣣प्त꣢ । धा꣣तृ꣡भिः꣢ ॥११२१॥

Mantra without Swara
राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते । यज्ञो न सप्त धातृभिः ॥

राजानः । न । प्रशस्तिभिः । प्र । शस्तिभिः । सोमासः । गोभिः । अञ्जते । यज्ञः । न । सप्त । धातृभिः ॥११२१॥

Samveda - Mantra Number : 1121
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(राजानः न) नृपतयो यथा (प्रशस्तिभिः) विजयकीर्तिभिः भासन्ते, (यज्ञः न) मानसो यज्ञो यथा (सप्त धातृभिः२) मनोबुद्धिज्ञानेन्द्रियरूपैः सप्तभिः होतृभिः भासते, यद्वा (यज्ञः न) अग्निष्टोमयज्ञो यथा (सप्त धातृभिः) सप्तभिः (होतृभिः) भासते तथा (सोमासः) विद्वांसो गुरवः (गोभिः) ज्ञानरश्मिभिः, वेदवाग्भिर्वा (अञ्जते) भासन्ते। [अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु, रुधादिः] ॥६॥ अत्रोपमालङ्कारः ॥६॥
Essence
नृपा यथा प्रशस्तिगीतैः शोभन्ते, यज्ञो यथा ऋत्विग्भिः शोभते तथैव गुरुजना विद्यया, ब्रह्मसाक्षात्कारेण, तेजसा, तपसा, प्रेम्णा, क्षमया, मधुरव्यवहारेण च शोभन्ते ॥६॥
Subject
अथ पुनरपि गुरवो वर्ण्यन्ते।
Footnote
१. ऋ० ९।१०।३। २. सप्तधातृभिः सप्त होत्राभिः—इति सा०। सप्तवषट्कारिणः सप्त धातारः, अथवा सप्तच्छन्दांसि सप्त धातारः—इति वि०।