Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 112

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
य꣡जि꣢ष्ठं त्वा ववृमहे दे꣣वं꣡ दे꣢व꣣त्रा꣡ होता꣢꣯र꣣म꣡म꣢र्त्यम् । अ꣣स्य꣢ य꣣ज्ञ꣡स्य꣢ सु꣣क्र꣡तु꣢म् ॥११२॥

य꣡जि꣢꣯ष्ठम् । त्वा꣣ । ववृमहे । देव꣢म् । दे꣢वत्रा꣢ । हो꣡ता꣢꣯रम् । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । अस्य꣢ । य꣣ज्ञ꣡स्य꣢ । सुक्र꣡तु꣢म् । सु꣣ । क्र꣡तु꣢꣯म् ॥११२॥

Mantra without Swara
यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् । अस्य यज्ञस्य सुक्रतुम् ॥

यजिष्ठम् । त्वा । ववृमहे । देवम् । देवत्रा । होतारम् । अमर्त्यम् । अ । मर्त्यम् । अस्य । यज्ञस्य । सुक्रतुम् । सु । क्रतुम् ॥११२॥

Samveda - Mantra Number : 112
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे अग्ने अग्रणीः परब्रह्म परमात्मन् ! (यजिष्ठम्) अतिशयेन यष्टारम् सृष्टियज्ञविधातारं, सुखैश्वर्यादीनां दातारं, द्यावापृथिव्यादीनां सङ्गमयितारम्। अतिशयेन यष्टा यजिष्ठः। यज देवपूजासङ्गतिकरणदानेषु। तृजन्ताद् अतिशायने इष्ठनि तुरिष्ठेमेयस्सु।’ अ० ६।४।१५४ इति तृचो लोपः। (देवत्रा देवम्) देवेषु प्रकाशकेषु सूर्यविद्युच्चन्द्रादिषु चक्षुःश्रोत्रमनआदिषु वा श्रेष्ठं प्रकाशकम्। देवत्रा देवेषु, सप्तम्यर्थे त्रा प्रत्ययः। (होतारम्) मोक्षसुखस्य प्रदातारम्, (अमर्त्यम्) अमरणधर्माणम्, (अस्य यज्ञस्य) एतस्य मदीयस्य ध्यानयज्ञस्य (सुक्रतुम्) सुसञ्चालकं सुसफलयितारम् (त्वा) त्वाम् वयम् (ववृमहे) उपास्यत्वेन वृण्महे। वृञ् वरणे, कालसामान्ये लिट् ॥६॥ अथ द्वितीयः—नृपतिपरः। हे अग्ने अग्रगन्तः वीरपुरुष ! (यजिष्ठम्) अतिशयेन यष्टारं, परोपकारिणम्, (देवत्रा देवम्) दिव्यगुणयुक्तेषु जनेषु विशेषेण दिव्यगुणयुक्तम्, (होतारम्) प्रजाभ्यः सुखप्रदातारम्, (अमर्त्यम्) कीर्त्या अमरणशीलम्, (अस्य यज्ञस्य) एतस्य राष्ट्रयज्ञस्य (सुक्रतुम्) सुकर्तारम् (त्वा) त्वाम्, (वयं) प्रजाजनाः (ववृमहे) राजपदाय वृण्महे ॥६॥ अत्र श्लेषालङ्कारः। देवं, देव इत्यत्र छेकानुप्रासः ॥६॥
Essence
यथा प्रजाजनैर्दिव्यगुणकर्मस्वभावः परमेश्वर उपास्यत्वेन वरणीयस्तथैव वीरः, परोपकारी, श्लाघ्यगुणः, सुखप्रदाता, कीर्तिमान्, सुशासकः, शत्रुविजेता पुरुषो राजपदे प्रतिष्ठापनाय वरणीयः ॥६॥
Subject
अथ परमात्मनो नृपतेश्च वरणविषयमाह।
Footnote
१. ऋ० ८।१९।३, साम० १४१३।