Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1117

1875 Mantra
Devata- पवमानः सोमः Rishi- वृषगणो वासिष्ठः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
प्र꣢ ह꣣ꣳसा꣡स꣢स्तृ꣣प꣡ला꣢ व꣣ग्नु꣢꣫मच्छा꣣मा꣢꣫दस्तं꣣ वृ꣡ष꣢गणा अयासुः । अ꣣ङ्गोषि꣢णं꣣ प꣡व꣢मान꣣ꣳ स꣡खा꣢यो दु꣣र्म꣡र्षं꣢ वा꣣णं꣡ प्र व꣢꣯दन्ति सा꣣क꣢म् ॥१११७॥

प्र । ह꣣ꣳसा꣡सः꣢ । तृ꣣प꣡ला꣢ । व꣣ग्नु꣢म् । अ꣡च्छ꣢꣯ । अ꣣मा꣢त् । अ꣡स्त꣢꣯म् । वृ꣡ष꣢꣯गणाः । वृ꣡ष꣢꣯ । ग꣣णाः । अयासुः । अङ्गोषि꣡ण꣢म् । प꣡व꣢꣯मानम् । स꣡खा꣢꣯यः । स । खा꣣यः । दुर्म꣡र्ष꣢म् । दुः꣣ । म꣡र्ष꣢꣯म् । बा꣣ण꣢म् । प्र । व꣣दन्ति । साक꣢म् ॥१११७॥

Mantra without Swara
प्र हꣳसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः । अङ्गोषिणं पवमानꣳ सखायो दुर्मर्षं वाणं प्र वदन्ति साकम् ॥

प्र । हꣳसासः । तृपला । वग्नुम् । अच्छ । अमात् । अस्तम् । वृषगणाः । वृष । गणाः । अयासुः । अङ्गोषिणम् । पवमानम् । सखायः । स । खायः । दुर्मर्षम् । दुः । मर्षम् । बाणम् । प्र । वदन्ति । साकम् ॥१११७॥

Samveda - Mantra Number : 1117
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(तृपला) शीघ्रकारिणः। [तृपल इति क्षिप्रनाम। निरु० ५।१२। सुपां सुलुक्० अ० ७।१।३९ इति जसः आकारादेशः] (वृषगणाः) वृषः धार्मिकः गणो येषां तथाविधाः (हंसासः) हंससदृशाः नीरक्षीरविवेकिनो निर्मलहृदयाः छात्राः (अमात्) बलाद्धेतोः, विद्याबलं प्राप्तुमित्यर्थः। [अम इति बलनाम। निरु० १०।२१।] (वग्नुम् अच्छ) वाचस्पतिम् आचार्यं प्रति। [वग्नुः इति वाङ्नाम। निघं० १।११, लक्षणया वाचस्पतिर्गृह्यते।] (अस्तम्) गृहम्, गुरुकुलम् (प्र अयासुः) प्र गच्छन्ति। (सखायः) सहाध्यायिनः ते (साकम्) सार्धं मिलित्वा (अङ्गोषिणम्) वेदानाम् आघोषकर्तारम्। [आङ्गूषः स्तोम आघोषः। निरु० ५।११।] (पवमानम्) हृदयानि पवित्रयन्तम्, (दुर्मर्षम्) दुर्धर्षम् (वाणम्२) संभजनीयम् आचार्यम्। [वन संभक्तौ, वन्यते सेव्यते इति वाणः।] (प्र वदन्ति) अध्यापनाय निवेदयन्ति ॥२॥ अत्र हंसासः इति लुप्तोपमम्। वाग्वाचको वग्नुशब्दो लक्षणावृत्त्या वाचस्पतिं लक्षयति, वाग्मित्वातिशयो व्यङ्ग्यः ॥२॥
Essence
सुयोग्या गुरवः सुयोग्यान् शिष्यान् यदा प्राप्नुवन्ति तदैवोभये कीर्तिमन्तः सञ्जायन्ते ॥२॥
Subject
अथ कीदृशाः शिष्याः कीदृशमाचार्यं प्रति विद्याध्ययनाय गच्छन्तीत्याह।
Footnote
१. ऋ० ९।९७।८, ‘तृ॑पलं॑ म॒न्यु॒मच्छा॒’ इति पूर्वार्द्धे, ‘आ॒ङ्गू॒ष्यं  पव॑मानं॒ सखा॑यो दु॒र्मर्षसा॒कं प्र व॑दन्ति वा॒णम्’ इति चोत्तरार्द्धे पाठः। २. पवमानं सोममुद्दिश्य वाणं वाद्यविशेषं साकं सहैव प्रवदन्ति प्रवादयन्ति, तदुपलक्षितं गानं कुर्वन्तीत्यर्थः इति सा०। वाणं वादित्रविशेषम्, यथा वाणस्य शततन्त्रीकस्य जायते शब्दः तद्वत् सोमस्य जायमानस्य महान् शब्दः इति वि०।