Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1116

1875 Mantra
Devata- पवमानः सोमः Rishi- वृषगणो वासिष्ठः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
प्र꣡ काव्य꣢꣯मु꣣श꣡ने꣢व ब्रुवा꣣णो꣢ दे꣣वो꣢ दे꣣वा꣢नां꣣ ज꣡नि꣢मा विवक्ति । म꣡हि꣢व्रतः꣣ शु꣡चि꣢बन्धुः पाव꣣कः꣢ प꣣दा꣡ व꣢रा꣣हो꣢ अ꣣꣬भ्ये꣢꣯ति꣣ रे꣡भ꣢न् ॥१११६॥

प्र꣢ । का꣡व्य꣢꣯म् । उ꣣श꣡ना꣢ । इ꣣व । ब्रुवाणः꣢ । दे꣣वः꣢ । दे꣣वा꣡ना꣢म् । ज꣡नि꣢꣯म । वि꣣वक्ति । म꣡हि꣢꣯व्रतः । म꣡हि꣢꣯ । व्र꣣तः । शु꣡चि꣢꣯बन्धुः । शु꣡चि꣢꣯ । ब꣣न्धुः । पावकः꣢ । प꣣दा꣢ । व꣣राहः꣢ । अ꣣भि꣢ । ए꣣ति । रे꣡भ꣢꣯न् ॥१११६॥

Mantra without Swara
प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति । महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥

प्र । काव्यम् । उशना । इव । ब्रुवाणः । देवः । देवानाम् । जनिम । विवक्ति । महिव्रतः । महि । व्रतः । शुचिबन्धुः । शुचि । बन्धुः । पावकः । पदा । वराहः । अभि । एति । रेभन् ॥१११६॥

Samveda - Mantra Number : 1116
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(उशना इव) जनानां हितकामः परमेश्वर इव, परमेश्वरो यथा सृष्ट्यादौ वेदकाव्यमुपदिष्टवान् तथा (काव्यम्) वेदकाव्यम् (प्र ब्रुवाणः) छात्रेभ्य उपदिशन् (देवः) दिव्यगुणयुक्तः सोमः विद्यारसागारः आचार्यः (देवानाम्) जगतो दिव्यपदार्थानां सूर्यचन्द्रविद्युन्नक्षत्रजलवाय्वग्निगिरिसरित्सागर- प्रभृतीनाम् (जनिम) जन्म (विवक्ति) व्याख्याति। कथं तेषां पदार्थानां जन्म संजातं, किंगुणास्ते पदार्थाः, कश्च तेषामुपयोग इत्यादि शिष्याणां पुरतो व्याचष्टे। [वच परिभाषणे, अदादिः, वक्ति इति प्राप्ते व्यत्ययेन विकरणस्य श्लुः, बहुलं छन्दसि। अ० ७।४।७८ इत्यभ्यासस्य इत्वम्।] (महिव्रतः) महाव्रतः महाकर्मा वा, (शुचिबन्धुः) शुचिः पवित्रः परमेश्वरो बन्धुर्यस्य सः, (पावकः) पवित्रतासम्पादकः (वराहः) जलवर्षको मेघ इव विद्यावर्षकः आचार्यः। [वराहो मेघो भवति वराहारः। निरु० ५।४।२१।] (पदा) शास्त्राणां सुप्तिङन्तादीनि पदानि (रेभन्) उच्चारयन्। [रेभृ शब्दे, भ्वादिः।] (अभ्येति) अध्यापनार्थमागच्छति ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
सर्वेषां शास्त्राणां पारंगतः सुयोग्य आचार्यो गूढमपि शास्त्रतत्त्वं तथोपदिशति यथा विद्यार्थिनां मतौ स विषयो हस्तामलकवत् स्पष्टो जायते। स्वयं पवित्रोऽन्येषां पावकः परमेश्वरस्य सखा स आचार्यश्छात्राणां वन्दनीयः खलु ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५२४ क्रमाङ्के परमात्मविषये व्याख्याता। अत्राचार्यशिष्यविषय उच्यते।
Footnote
१. ऋ० ९।९७।७, साम० ५२४।