Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1115

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवः Chhand- द्विपदा विराट् Swara- पञ्चमः
Mantra with Swara
उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥१११५॥

उ꣡प꣢꣯ । प्र꣣क्षे꣢ । प्र꣣ । क्षे꣢ । म꣡धु꣢꣯मति । क्षि꣣य꣡न्तः꣢ । पु꣡ष्ये꣢꣯म । र꣣यि꣢म् । धी꣣म꣡हे꣢ । ते꣣ । इन्द्र ॥१११५॥

Mantra without Swara
उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥

उप । प्रक्षे । प्र । क्षे । मधुमति । क्षियन्तः । पुष्येम । रयिम् । धीमहे । ते । इन्द्र ॥१११५॥

Samveda - Mantra Number : 1115
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) विद्वन् आचार्य परमैश्वर्यवन् वीर राजेन्द्र वा ! वयं (ते) त्वाम् (धीमहे) आचार्यपदे राजपदे वा प्रतिष्ठापयामः। तव (मधुमति) मधुरे (प्रक्षे) ज्ञाननिर्झरे ऐश्वर्यनिर्झरे वा (उप क्षियन्तः) निवसन्तः वयम् (रयिम्) विद्याधनम् सुवर्णवस्त्रालङ्कारादिधनं वा (पुष्येम) पुष्टतया प्राप्नुयाम ॥३॥
Essence
आचार्यपदे नृपतिपदे वा सुयोग्यो विद्वान् पुरुषश्चेत् प्रतिष्ठाप्यते तर्हि स सर्वान् शिष्यान् प्रजाजनांश्च विदुषो धनाधीशांश्च कर्तुं पारयति ॥३॥ अस्मिन् खण्डेऽध्यात्माधिराष्ट्रयोर्गुरुशिष्यराजप्रजयोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
तृतीया ऋक् पूर्वार्चिके ४४४ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र गुरुशिष्यविषये राजप्रजाविषये च वर्ण्यते।
Footnote
१. साम० ४४४।