Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1114

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवः Chhand- द्विपदा विराट् Swara- पञ्चमः
Mantra with Swara
अर्च꣢꣯न्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥१११४॥

अ꣡र्च꣢꣯न्ति । अ꣣र्क꣢म् । म꣣रु꣡तः꣢ । स्व꣣र्काः꣢ । सु꣣ । अर्काः꣢ । आ । स्तो꣣भति । श्रुतः꣡ । यु꣡वा꣢꣯ । सः । इ꣡न्द्रः꣢꣯ ॥१११४॥

Mantra without Swara
अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥

अर्चन्ति । अर्कम् । मरुतः । स्वर्काः । सु । अर्काः । आ । स्तोभति । श्रुतः । युवा । सः । इन्द्रः ॥१११४॥

Samveda - Mantra Number : 1114
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—गुरुशिष्यपरः। (स्वर्काः) सुमन्त्रपाठिनः। [अर्को मन्त्रो भवति यदनेनार्चन्ति। निरु० ५।४।] (मरुतः) प्राणायामाभ्यासिनः शिष्याः (अर्कम्) अर्चनीयम् आचार्यदेवम्। [अर्को देवो भवति यदेनमर्चन्ति निरु० ५।४।] (अर्चन्ति) सत्कुर्वन्ति। (श्रुतः) प्रसिद्धः (युवा) तरुणवत् सक्रियः (सः इन्द्रः) स आचार्यः, तान् (आ स्तोभति) विद्यादिप्रदानेन अवलम्बं प्रयच्छति ॥ द्वितीयः—राजप्रजापरः (स्वर्काः) सूर्यवत् सुतेजस्विनः (मरुतः) राष्ट्रवासिनो मनुष्याः (अर्कम्) तेजस्विनं नृपम् (अर्चन्ति) सत्कुर्वन्ति। (श्रुतः) सर्वैः श्रुतगुणः, (युवा) यौवनसम्पन्नः (सः इन्द्रः) असौ वीरो राजा, तान् (आ स्तोभति) शरणप्रदानेन रक्षति ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
Essence
शिष्यैः सत्कृत आचार्यः प्रजाजनैश्च सत्कृतो राजा सर्वात्मना तेषां हितं सम्पादयति ॥२॥
Subject
द्वितीया ऋक् पूर्वार्चिके ४४५ क्रमाङ्के परमात्मविषय एव व्याख्याता। अत्र गुरुशिष्यविषयो राजप्रजाविषयश्च वर्ण्यते।
Footnote
१. साम० ४४५।