Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1111

1875 Mantra
Devata- विश्वे देवाः Rishi- भुवन आप्त्यः साधनो वा भौवनः Chhand- द्विपदा त्रिष्टुप् Swara- धैवतः
Mantra with Swara
य꣣ज्ञं꣡ च꣢ नस्त꣣꣬न्वं꣢꣯ च प्र꣣जां꣡ चा꣢दि꣣त्यै꣡रिन्द्रः꣢꣯ स꣣ह꣡ सी꣢षधातु ॥११११॥

य꣣ज्ञ꣢म् । च꣣ । नः । तन्व꣢म् । च꣣ । प्रजा꣢म् । प्र꣣ । जा꣢म् । च꣣ । आदित्यैः꣢ । आ꣣ । दित्यैः꣢ । इ꣡न्द्रः꣢꣯ । स꣣ह꣢ । सी꣣षधातु ॥११११॥

Mantra without Swara
यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु ॥

यज्ञम् । च । नः । तन्वम् । च । प्रजाम् । प्र । जाम् । च । आदित्यैः । आ । दित्यैः । इन्द्रः । सह । सीषधातु ॥११११॥

Samveda - Mantra Number : 1111
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रः) अस्माकं जीवात्मा (आदित्यैः सह)आदित्यवद् ज्ञानसाधनैर्मनोबुद्धिसहितैः ज्ञानेन्द्रियैः सार्धम्, यद्वा (इन्द्रः) राष्ट्रस्य राजा (आदित्यैः सह) विद्वद्भिः सार्धम् मिलित्वा (नः) अस्माकम् (यज्ञं च) अध्वरं च, (तन्वं च) देहं च, (प्रजां च) सन्ततिं राष्ट्रस्य प्रजां च (सीषधातु) साधयतु ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
Essence
जीवात्मा मनोबुद्धिज्ञानेन्द्रियाण्युपयुज्य सर्वं साद्धुं शक्नोति। तथैव विद्वांसः प्रजाजना राजा राज्याधिकारिणश्च मिलित्वा पुरुषार्थेन सर्वं यज्ञसुखं, देहसुखं, सन्ततिसुखं, प्रजासुखं च साद्धुं शक्नुवन्ति ॥२॥
Subject
अथाऽध्यात्मविषयो राष्ट्रविषयश्चोच्यते।
Footnote
१. ऋ० १०।१५७।२, ‘सीषधातु’ इत्यत्र ‘ची॑क्लृपाति’ इति पाठः।