Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1110

1875 Mantra
Devata- विश्वे देवाः Rishi- भुवन आप्त्यः साधनो वा भौवनः Chhand- द्विपदा त्रिष्टुप् Swara- धैवतः
Mantra with Swara
इ꣣मा꣢꣫ नु कं꣣ भु꣡व꣢ना सीषधे꣣मे꣡न्द्र꣢श्च꣣ वि꣡श्वे꣢ च दे꣣वाः꣢ ॥१११०

इ꣣मा꣢ । नु । क꣣म् । भु꣡व꣢꣯ना । सी꣣षधेम । इ꣡न्द्रः꣢꣯ । च꣣ । वि꣡श्वे꣢꣯ । च꣣ । देवाः꣢ ॥१११०॥१

Mantra without Swara
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥१११०

इमा । नु । कम् । भुवना । सीषधेम । इन्द्रः । च । विश्वे । च । देवाः ॥१११०॥१

Samveda - Mantra Number : 1110
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
वयम्, (इन्द्रः च) अस्माकं जीवात्मा च (विश्वे च देवाः) मनोबुद्धिप्राणज्ञानेन्द्रियकर्मेन्द्रियरूपा अन्ये च देवाः मिलित्वा (नु कम्) सद्य एव (इमा भुवना) इमानि सर्वाणि भुवनानि सूर्यचन्द्रमङ्गलबुधबृहस्पतिभूम्यादीनि (सीषधेम) साधयेम, तद्विषयकज्ञानेन साधनानां प्रयोगेण च स्वानुकूलानि कुर्याम ॥१॥
Essence
विद्वद्भिः सर्वा भूगोलखगोलविद्या विज्ञायान्येभ्यो लोकेभ्यो जायमाना लाभाः सर्वे प्राप्तव्या हानयश्च परिहरणीयाः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४५२ क्रमाङ्केऽध्यात्मविषये राष्ट्रविषये च व्याख्याता। अत्र भिन्नोऽर्थः प्रदर्श्यते।
Footnote
१. ऋ० १०।१५७।१, साम० ४५२।