Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 111

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
भ꣣द्रो꣡ नो꣢ अ꣣ग्नि꣡राहु꣢꣯तो भ꣣द्रा꣢ रा꣣तिः꣡ सु꣢भग भ꣣द्रो꣡ अ꣢ध्व꣣रः꣢ । भ꣣द्रा꣢ उ꣣त꣡ प्रश꣢꣯स्तयः ॥१११॥

भ꣣द्रः꣢ । नः꣣ । अग्निः꣢ । आ꣡हु꣢꣯तः । आ । हु꣣तः । भद्रा꣢ । रा꣣तिः꣢ । सु꣢भग । सु । भग । भद्रः꣢ । अ꣣ध्वरः꣢ । भ꣣द्राः꣢ । उ꣣त꣢ । प्र꣡श꣢꣯स्तयः । प्र । श꣣स्तयः ॥१११॥

Mantra without Swara
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥

भद्रः । नः । अग्निः । आहुतः । आ । हुतः । भद्रा । रातिः । सुभग । सु । भग । भद्रः । अध्वरः । भद्राः । उत । प्रशस्तयः । प्र । शस्तयः ॥१११॥

Samveda - Mantra Number : 111
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(आहुतः अग्निः) प्राप्तसुगन्धिमिष्टपुष्ट्यारोग्यवर्द्धकहव्याहुतिः यज्ञाग्निः, सत्कृतः अतिथिः, प्राप्तसमर्पणाहुतिः परमात्मा च (नः) अस्मभ्यम् (भद्रः) भद्रप्रदः अस्तु। (रातिः) अस्माभिः कृता दत्तिः (भद्रा) श्रेष्ठा भद्रप्रदा वा अस्तु। हे (सुभग) सौभाग्यवन् मदीय अन्तरात्मन् ! त्वया कृतः (अध्वरः) यज्ञः (भद्रः) श्रेष्ठः भद्रप्रदो वा अस्तु। (उत) अपि च (प्रशस्तयः) त्वदुपार्जिताः कीर्तयः (भद्राः) श्रेष्ठाः भद्रप्रदा वा सन्तु ॥५॥२ अत्रार्थश्लेषालङ्कारः ॥५॥
Essence
सर्वैर्मनुष्यैरग्निहोत्रादिरूपोऽतिथिसत्कारूपः परमात्मपूजनरूपश्च यज्ञो नित्यमनुष्ठेयो येन तेषां भद्रं भवेत्, तेषामुज्ज्वलाः कीर्तयश्च सर्वत्र प्रसरेयुः ॥५॥
Subject
अथ भद्रमाकाङ्क्षते।
Footnote
१. ऋ० ८।१९।१९, य० १५।३८ ऋषिः परमेष्ठी, साम० १५३८। २. यजुर्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं कल्याणप्राप्तिविषये व्याख्यातः।