Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1109

1875 Mantra
Devata- अग्निः Rishi- बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गौपायना लौपायना वा Chhand- द्विपदा विराट् Swara- पञ्चमः
Mantra with Swara
तं꣡ त्वा꣢ शोचिष्ठ दीदिवः सु꣣म्ना꣡य꣢ नू꣣न꣡मी꣢महे꣣ स꣡खि꣢भ्यः ॥११०९॥

त꣢म् । त्वा꣣ । शोचिष्ठ । दीदिवः । सुम्ना꣡य꣢ । नू꣣न꣢म् । ई꣣महे । स꣡खि꣢꣯भ्यः । स । खि꣣भ्यः ॥११०९॥

Mantra without Swara
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥

तम् । त्वा । शोचिष्ठ । दीदिवः । सुम्नाय । नूनम् । ईमहे । सखिभ्यः । स । खिभ्यः ॥११०९॥

Samveda - Mantra Number : 1109
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शोचिष्ठ) पवित्रतम अतिशयेन पवित्रकर्त्तः, (दीदिवः) सत्यप्रद्योतक परमात्मन् नृपते आचार्य वा ! (तं त्वा) तादृशं त्वाम्, वयम् (नूनम्) निश्चयेन (सखिभ्यः) सुहृद्भ्यः (सुम्नाय) सुखाय (ईमहे) याचामहे। [ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९] ॥३॥२
Essence
यः स्वयं पवित्रहृदयः सत्यसमर्थकश्च स एवान्यान् तादृशान्कर्तुं प्रभवति ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ५।२४।४। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विदुषो यज्ञविषये व्याख्यातवान्।