Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1108

1875 Mantra
Devata- अग्निः Rishi- बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गौपायना लौपायना वा Chhand- द्विपदा विराट् Swara- पञ्चमः
Mantra with Swara
व꣡सु꣢र꣣ग्नि꣡र्वसु꣢꣯श्रवा꣣ अ꣡च्छा꣢ नक्षि द्यु꣣म꣡त्त꣢मो र꣣यिं꣡ दाः꣢ ॥११०८॥

व꣡सुः꣢꣯ । अ꣣ग्निः꣢ । व꣡सु꣢꣯श्रवाः । व꣡सु꣢꣯ । श्र꣣वाः । अ꣡च्छ꣢꣯ । न꣣क्षि । द्युम꣡त्त꣢मः । र꣣यि꣢म् । दाः꣣ ॥११०८॥

Mantra without Swara
वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दाः ॥

वसुः । अग्निः । वसुश्रवाः । वसु । श्रवाः । अच्छ । नक्षि । द्युमत्तमः । रयिम् । दाः ॥११०८॥

Samveda - Mantra Number : 1108
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्निः) अग्रनायकः परमात्मा राजा विद्वान् आचार्यो वा (वसुः) सुद्गुणानां वासयिता, (वसुश्रवाः) वसुभिः विद्यादिधनैः श्रवः कीर्तिर्यस्य तादृशश्च अस्ति। हे परमात्मन् राजन् आचार्य वा ! त्वम् (अच्छ) अस्मदभिमुखम् (नक्षि) प्राप्नुहि, (द्युमत्तमः) तेजस्वितमः त्वम् (रयिम्) विविधं दिव्यं भौतिकं च धनम् (दाः) देहि ॥२॥२
Essence
परमात्मनो नृपतेराचार्यस्य च गुणकर्माणि दृष्ट्वा तत्सकाशाल्लाभान् प्राप्तुमर्हन्ति जनाः ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ५।२४।२, ‘द्यु॒मत्त॑मं’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिरस्मिन्नपि मन्त्रे राजधर्ममाह।