Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1107

1875 Mantra
Devata- अग्निः Rishi- बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गौपायना लौपायना वा Chhand- द्विपदा विराट् Swara- पञ्चमः
Mantra with Swara
अ꣢ग्ने꣣ त्वं꣢ नो꣣ अ꣡न्त꣢म उ꣣त꣢ त्रा꣣ता꣢ शि꣣वो꣡ भु꣢वो वरू꣣꣬थ्यः꣢꣯ ॥११०७॥

अ꣡ग्ने꣢꣯ । त्वम् । नः꣣ । अ꣡न्त꣢꣯मः । उ꣣त꣢ । त्रा꣣ता꣢ । शि꣡वः꣢ । भु꣣वः । वरू꣢थ्यः ॥११०७॥

Mantra without Swara
अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः ॥

अग्ने । त्वम् । नः । अन्तमः । उत । त्राता । शिवः । भुवः । वरूथ्यः ॥११०७॥

Samveda - Mantra Number : 1107
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रणीः परमात्मन् राजन् विद्वन् आचार्य वा ! त्वम् (नः) अस्माकम् (अन्तमः) अन्तिकतमः, (उत) अपि च (त्राता) अपराधेभ्यः रक्षकः, (शिवः) शिवरूपः, (वरूथ्यः) वरणीयश्च (भुवः) भव ॥१॥२
Essence
परमात्मनो नृपतेर्विदुष आचार्यस्य च संरक्षणं प्राप्यैव जना दोषमुक्ता निरपराधा निश्छला निष्पापा विद्वांसो ब्रह्मज्ञाः सदाचारिणश्च जायन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४४८ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र परमात्मनृपत्याचार्या उच्यन्ते।
Footnote
१. ऋ० ५।२४।१, ‘भुवो’ इत्यत्र ‘भ॑वा’ इति पाठः। साम० ४४८। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रेऽस्मिन् राजविषयमाह।