Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1106

1875 Mantra
Devata- पवमानः सोमः Rishi- कुत्स आङ्गिरसः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
म꣢ही꣣मे꣡ अ꣢स्य꣣ वृ꣢ष꣣ ना꣡म꣢ शू꣣षे꣡ माꣳश्च꣢꣯त्वे वा꣣ पृ꣡श꣢ने वा꣣ व꣡ध꣢त्रे । अ꣡स्वा꣢पयन्नि꣣गु꣡तः꣢ स्ने꣣ह꣢य꣣च्चा꣢पा꣣मि꣢त्रा꣣ꣳ अ꣢पा꣣चि꣡तो꣢ अचे꣣तः꣢ ॥११०६॥

म꣡ही꣢꣯ । इ꣣मे꣡इति꣢ । अ꣣स्य । वृ꣡ष꣢꣯ । ना꣡म꣢꣯ । शू꣣षे꣡इति꣢ । मा꣡ꣳश्च꣢꣯त्वे । वा꣣ । पृ꣡श꣢꣯ने । वा꣣ । व꣡ध꣢꣯त्रे꣣इ꣡ति꣢ । अ꣡स्वा꣢꣯पयत् । नि꣣गु꣡तः꣢ । नि꣣ । गु꣡तः꣢꣯ । स्ने꣣ह꣡य꣢त् । च꣣ । अ꣡प꣢꣯ । अ꣣मि꣡त्रा꣢न् । अ꣣ । मि꣡त्रा꣢꣯न् । अ꣡प꣢꣯ । अ꣣चि꣡तः꣢ । अ꣣ । चि꣡तः꣢꣯ । अ꣣च । इतः꣢ ॥११०६॥

Mantra without Swara
महीमे अस्य वृष नाम शूषे माꣳश्चत्वे वा पृशने वा वधत्रे । अस्वापयन्निगुतः स्नेहयच्चापामित्राꣳ अपाचितो अचेतः ॥

मही । इमेइति । अस्य । वृष । नाम । शूषेइति । माꣳश्चत्वे । वा । पृशने । वा । वधत्रेइति । अस्वापयत् । निगुतः । नि । गुतः । स्नेहयत् । च । अप । अमित्रान् । अ । मित्रान् । अप । अचितः । अ । चितः । अच । इतः ॥११०६॥

Samveda - Mantra Number : 1106
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अस्य) सोमस्य वीररसागारस्य नृपतेः (इमे) प्रत्यक्षं दृश्यमाने (वृष नाम) वृषनाम्नी वर्षकगुणे, (शूषे) बलवती (मही) महत्यौ बाहुयष्टी स्तः, ये (मांश्चत्वे वा) अश्वसंग्रामे वा (पृशने वा) परस्परस्पर्शयुक्ते मल्लयुद्धे वा (वधत्रे) शत्रूणां वधकरे भवतः। [मांश्चत्वः इत्यश्वनाम। निघं० १।१४, पृशनं स्पृशतेः, सकारलोपश्छान्दसः। हन्ति येन तद् वधत्रम्, ‘अभिनक्षियजिवधिपतिभ्योऽत्रन्’ उ० ३।१०५ इत्यनेन अत्रन् प्रत्ययः।] असौ सोमः वीरः नृपतिः (निगुतः) निगुप्तान् दुर्गखातादिषु प्रच्छन्नान् शत्रून् (अस्वापयत्) स्वापयति, धराशायिनः करोतीत्यर्थः। (स्नेहयत् च) मित्रेषु स्निह्यति च। अथ प्रत्यक्षकृतमाह—हे सोम शान्तिप्रिय प्रजाध्यक्ष ! त्वम् (इतः) अस्माद् राष्ट्रात् (अमित्रान्) द्रोहकारिणः रिपून् (अप अच) अपगमय, (अचितः) अविवेकिनः अधार्मिकान् नास्तिकान् (अप अच) अपगमय। एवं च राष्ट्रे परमेश्वरप्रचाराय वेदप्रचाराय च बद्धपरिकरो भव ॥३॥
Essence
सर्वेऽपि वीरा राष्ट्रवासिनः शत्रूच्छेदकाः परमात्मपूजकाश्च तदैव भवन्ति यदा राष्ट्राध्यक्षस्तत्र रुचिं गृह्णाति ॥३॥ अस्मिन् खण्डे गुरुशिष्ययोरुपास्योपासक-योरास्तिकस्य नृपतेश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ नास्तिकानां शत्रूणां पराजयाय राष्ट्रे ब्रह्मप्रचाराय च नृपतिविषयमाह।
Footnote
१. ऋ० ९।९७।५४।