Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1105

1875 Mantra
Devata- पवमानः सोमः Rishi- कुत्स आङ्गिरसः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
उ꣣त꣡ न꣢ ए꣣ना꣡ प꣢व꣣या꣡ प꣢व꣣स्वा꣡धि꣢ श्रु꣣ते꣢ श्र꣣वा꣡य्य꣢स्य ती꣣र्थे꣢ । ष꣣ष्टि꣢ꣳ स꣣ह꣡स्रा꣢ नैगु꣣तो꣡ वसू꣢꣯नि वृ꣣क्षं꣢꣫ न प꣣क्वं꣡ धू꣢नव꣣द्र꣡णा꣢य ॥११०५॥

उ꣣त꣢ । नः꣣ । एना꣢ । प꣣वया꣢ । प꣢वस्व । अ꣡धि꣢꣯ । श्रु꣣ते꣢ । श्र꣣वा꣡य्य꣢स्य । ती꣣र्थे꣢ । ष꣣ष्टि꣢म् । स꣣ह꣡स्रा꣢ । नै꣣गुतः꣢ । नै꣣ । गुतः꣢ । व꣡सू꣢꣯नि । वृ꣣क्ष꣢म् । न । प꣣क्व꣡म् । धू꣣नवत् । र꣡णा꣢꣯य ॥११०५॥

Mantra without Swara
उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे । षष्टिꣳ सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ॥

उत । नः । एना । पवया । पवस्व । अधि । श्रुते । श्रवाय्यस्य । तीर्थे । षष्टिम् । सहस्रा । नैगुतः । नै । गुतः । वसूनि । वृक्षम् । न । पक्वम् । धूनवत् । रणाय ॥११०५॥

Samveda - Mantra Number : 1105
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पूतासः) पवित्राः, (विपश्चितः) विद्वांसः, (दध्याशिरः) ज्ञानधारकाः परिपक्वाश्च। [दधति अन्यान् इति दधयः। ‘आदृगमहनजनः किकिनौ लिट् च। अ० ३।२।१७१’ इत्यनेन डुधाञ् धातोः किन् प्रत्ययः। आश्रीणन्ति स्वात्मानं ये ते आशिरः। आङ्पूर्वः श्रीञ् पाके, क्विपि धातोः शिर आदेशश्छान्दसः।] (सूरासः न) सूर्याः इव (दर्शतासः२) दर्शनीयाः दृष्टिप्रदाश्च, (जिगत्नवः) गतिमन्तः, कर्मण्याः, (घृते) विवेकप्रकाशे (ध्रुवाः) स्थिराः ये स्युः (ते) त एव (सोमासः) विद्याधर्मादिप्रेरकाः गुरवः राजपुरुषाश्च भवेयुः ॥२॥
Essence
ये पवित्राचरणा अधीतविविधविद्याः परेषां सहायकाः परिपक्वमतयः सूर्यवत् प्रकाशकाः कर्मशूराः स्थिरप्रकाशा विघ्नैः पुनः पुनः प्रतिहन्यमाना अपि गृहीतं कार्यमपरित्यजन्तो गुरवो राजपुरुषाश्च भवन्ति त एव सफला जायन्ते ॥२॥
Subject
अथ पुनरपि गुरवो राजपुरुषाश्च वर्ण्यन्ते।
Footnote
१. ऋ० ९।१०१।१२, ‘पूतासो’, ‘सूरासो’ इत्यत्र ‘पू॒ता’, ‘सूर्या॑सो॒’। २. दर्शतासः सर्वैर्दर्शनीयाः—इति सा०। सर्वस्य द्रष्टारः—इति वि०।