Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1104

1875 Mantra
Devata- पवमानः सोमः Rishi- कुत्स आङ्गिरसः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣣या꣢ प꣣वा꣡ प꣢वस्वै꣣ना꣡ वसू꣢꣯नि माꣳश्च꣣त्व꣡ इ꣢न्दो꣣ स꣡र꣢सि꣣ प्र꣡ ध꣢न्व । ब्र꣣ध्न꣢श्चि꣣द्य꣢स्य꣣ वा꣢तो꣣ न꣢ जू꣣तिं꣡ पु꣢रु꣣मे꣡धा꣢श्चि꣣त्त꣡क꣢वे꣣ न꣡रं꣢ धात् ॥११०४॥

अ꣣या꣢ । प꣡वा꣢ । प꣣वस्व । एना꣢ । व꣡सू꣢꣯नि । मा꣣ꣳश्चत्वे꣢ । इ꣣न्दो । स꣡र꣢꣯सि । प्र । ध꣣न्व । ब्रध्नः꣢ । चि꣣त् । य꣡स्य꣢꣯ । वा꣡तः꣢꣯ । न । जू꣡ति꣢꣯म् । पु꣣रु꣡मे꣢धाः । पु꣣रु । मे꣡धाः꣢꣯ । चि꣣त् । त꣡क꣢꣯वे । न꣡र꣢꣯म् । धा꣣त् ॥११०४॥

Mantra without Swara
अया पवा पवस्वैना वसूनि माꣳश्चत्व इन्दो सरसि प्र धन्व । ब्रध्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ॥

अया । पवा । पवस्व । एना । वसूनि । माꣳश्चत्वे । इन्दो । सरसि । प्र । धन्व । ब्रध्नः । चित् । यस्य । वातः । न । जूतिम् । पुरुमेधाः । पुरु । मेधाः । चित् । तकवे । नरम् । धात् ॥११०४॥

Samveda - Mantra Number : 1104
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) तेजस्विन् आनन्दरसेन क्लेदक परमात्मन् ! त्वम् (अया) अनया (पवा) पवया, धारया। [पवते प्रवहति इति पवा तया, तृतीयैकवचने ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन विभक्तेराकारादेशः।] (एना) एनानि (वसूनि) दिव्यानि भौतिकानि च धनानि (पवस्व) प्रवाहय, (मांश्चत्वे) मान् अभिमन्यमानान् कामक्रोधादिशत्रून् चातयति नाशयतीति तस्मिन् (सरसि) गतिशीले जीवात्मनि। [सरति अग्रे गच्छतीति सरः।] (प्र धन्व) प्रकर्षेण गच्छ, (पुरुमेधाः चित्) बहुमेधावान् जनोऽपि (तकवे) प्रगतये। [तकतिः गतिकर्मा। निघं० २।१४।] (यस्य) यस्य तव (नरम्) नेतृत्वगुणम् (धात्) दधाति, (ब्रध्नः चित्) महान् (वातः) वायुः (न) यथा (जूतिम्) वेगम् (धात्) दधाति ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
वाय्वादयः सर्वेऽपि प्राकृतिकाः पदार्था निखिला अपि मनुष्याश्च परमात्मन एव सकाशात् स्वां स्वां शक्तिमाप्नुवन्ति, तस्य संरक्षणं विना तेऽकिञ्चित्करा एव ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५४१ क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र स एव विषयः प्रकारान्तरेण वर्ण्यते।
Footnote
१. ऋ० ९।९७।५२ ‘ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु॑रु॒ मेधश्चि॒त् तक॑वे॒ नरं दात्’ इत्युत्तरार्धपाठः। साम० ५४१।