Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1103

1875 Mantra
Devata- पवमानः सोमः Rishi- मनुः सांवरणः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
सु꣣ष्वाणा꣢सो꣣ व्य꣡द्रि꣢भि꣣श्चि꣡ता꣢ना꣣ गो꣡रधि꣢꣯ त्व꣣चि꣢ । इ꣡ष꣢म꣣स्म꣡भ्य꣢म꣣भि꣢तः꣣ स꣡म꣢स्वरन्वसु꣣वि꣡दः꣢ ॥११०३॥

सु꣣ण्वाणा꣡सः꣢ । वि । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । चि꣡ता꣢꣯नाः । गोः । अ꣡धि꣢꣯ । त्व꣣चि꣢ । इ꣡ष꣢꣯म् । अ꣣स्म꣡भ्य꣢म् । अ꣣भि꣡तः꣢ । सम् । अ꣣स्वरन् । वसुवि꣡दः꣢ । व꣣सु । वि꣡दः꣢꣯ ॥११०३॥

Mantra without Swara
सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि । इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥

सुण्वाणासः । वि । अद्रिभिः । अ । द्रिभिः । चितानाः । गोः । अधि । त्वचि । इषम् । अस्मभ्यम् । अभितः । सम् । अस्वरन् । वसुविदः । वसु । विदः ॥११०३॥

Samveda - Mantra Number : 1103
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अद्रिभिः) मेघैरिव सरसैर्मनोभिः (सुष्वाणासः)उपदिशन्तः। [स्वन शब्दे, लिटः कानच्, द्वित्वम्। आज्जसेरसुक्।] (गोः) राष्ट्रभूम्याः (त्वचि अधि) पृष्ठे (चितानाः) शिक्षणकलां राजनीतिं च जानानाः, (वसुविदः) विद्याधनस्य सुवर्णादिधनस्य वा लम्भकाः, सोमासः गुरवो राजपुरुषाश्च (इषम्) अभीष्टं ज्ञानं धनं वा (अस्मभ्यम् अभितः) सर्वतः (समस्वरन्२) घोषयन्तु, प्रयच्छन्तु इति यावत् ॥३॥
Essence
गुरुभी राजपुरुषैश्च विद्वद्भिः कीर्तिमद्भिर्विद्योपदेशकैरभीष्ट- धनादिप्रापकैश्च भाव्यम् ॥३॥
Subject
अथ पुनरपि त एव वर्ण्यन्ते।
Footnote
१. ऋ–० ९।१०१।११। २. समस्वरन् सम्यक् शब्दयन्ति, प्रयच्छन्तीति यावत्—इति सा०।