Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1101

1875 Mantra
Devata- पवमानः सोमः Rishi- मनुः सांवरणः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
सो꣡माः꣢ पवन्त꣣ इ꣡न्द꣢वो꣣ऽस्म꣡भ्यं꣢ गातु꣣वि꣡त्त꣢माः । मि꣣त्राः꣢ स्वा꣣ना꣡ अ꣢रे꣣प꣡सः꣢ स्वा꣣꣬ध्यः꣢꣯ स्व꣣र्वि꣡दः꣢ ॥११०१॥

सो꣡माः꣢꣯ । प꣣वन्ते । इ꣡न्द꣢꣯वः । अ꣣स्म꣡भ्य꣢म् । गा꣣तुवि꣡त्त꣢माः । गा꣣तु । वि꣡त्त꣢꣯माः । मि꣣त्राः꣢ । मि꣣ । त्राः꣢ । स्वा꣣नाः꣢ । अ꣣रेप꣡सः꣢ । अ꣣ । रेप꣡सः꣢ । स्वा꣣꣬ध्यः꣢ । सु꣣ । आ꣣꣬ध्यः꣢ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥११०१॥

Mantra without Swara
सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः । मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः ॥

सोमाः । पवन्ते । इन्दवः । अस्मभ्यम् । गातुवित्तमाः । गातु । वित्तमाः । मित्राः । मि । त्राः । स्वानाः । अरेपसः । अ । रेपसः । स्वाध्यः । सु । आध्यः । स्वर्विदः । स्वः । विदः ॥११०१॥

Samveda - Mantra Number : 1101
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्दवः) मधुरव्यवहारेण ज्ञानरसेन वा क्लेदकाः, (अस्मभ्यं गातुवित्तमाः) अस्मभ्यमतिशयेन मार्गदर्शयितारः, (मित्राः) मित्रभूताः, (स्वानाः) सुवानाः सद्गुणानुत्पादयन्तः, (अरेपसः) निष्पापाः, (स्वाध्यः)शोभनध्यानाः, (स्वर्विदः) दिव्यप्रकाशस्य आनन्दस्य वा लम्भकाः (सोमाः) ज्ञानरसागाराः गुरवः सत्कर्मसु प्रेरकाः राजपुरुषाश्च (पवन्ते) शिष्याणां प्रजाजनानां च जीवनानि पवित्रीकुर्वन्ति ॥१॥
Essence
गुरवो राजपुरुषाश्च यदि विद्वांसो मधुरा मार्गदर्शका मित्रवद् व्यवहरन्तः शिक्षया सद्गुणानुत्पादयन्तो निरपराधा निर्दोषाः स्वकर्मणि दत्तावधानाः पावकाश्च भवन्ति तदैव ते शिष्याणां प्रजानां चोन्नतिं कर्तुं पारयन्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५४८ क्रमाङ्के परमानन्दरसविषये व्याख्याता। अत्र विदुषां गुरूणां राजपुरुषाणां च विषयमाह।
Footnote
१. ऋ० ९।१०१।१०, ‘सु॑वा॒ना’ इति पाठः। साम० ५४८