Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1100

1875 Mantra
Devata- पवमानः सोमः Rishi- पर्वतनारदौ काण्वौ Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
अ꣣यं꣡ दक्षा꣢꣯य꣣ सा꣡ध꣢नो꣣ऽय꣡ꣳ शर्धा꣢꣯य वी꣣त꣡ये꣢ । अ꣣यं꣢ दे꣣वे꣢भ्यो꣣ म꣡धु꣢मत्तरः सु꣣तः꣢ ॥११००॥

अय꣢म् । द꣡क्षा꣢꣯य । सा꣡ध꣢꣯नः । अ꣡य꣢म् । श꣡र्धा꣢꣯य । वी꣣त꣡ये꣢ । अ꣣य꣢म् । दे꣣वे꣡भ्यः꣢ । म꣡धु꣢꣯मत्तरः । सु꣣तः꣢ ॥११००॥

Mantra without Swara
अयं दक्षाय साधनोऽयꣳ शर्धाय वीतये । अयं देवेभ्यो मधुमत्तरः सुतः ॥

अयम् । दक्षाय । साधनः । अयम् । शर्धाय । वीतये । अयम् । देवेभ्यः । मधुमत्तरः । सुतः ॥११००॥

Samveda - Mantra Number : 1100
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(साधनः) सिद्धिप्रदाता (अयम्) एषः पवमानः सोमः पवित्रयिता परमेश्वरः (दक्षाय) आत्मबलाय भवति। (अयम्) एषः परमेश्वरः (शर्धाय) उत्साहाय (वीतये) जनानां प्रगतये च भवति। (सुतः) ध्यातः (अयम्) एषः (देवेभ्यः) विद्वद्भ्यः सदाचारिभ्यः उपासकेभ्यः (मधुमत्तरः) अतिशयेन मधुरो भवति ॥३॥
Essence
श्रद्धयोपासितः परमेश्वर उपासकायात्मबलमुत्साहं प्रगतिं वाचि कर्मणि व्यवहारे च माधुर्यं प्रयच्छति ॥३॥
Subject
अथ परमात्मा जनानां कमुपकारं करोतीत्याह।
Footnote
१. ऋ० ९।१०५।३, ‘मधु॑मत्तमः’ इति पाठः।