Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 110

1875 Mantra
Devata- अग्निः Rishi- प्रयोगो भार्गवः सौभरि: काण्वो वा Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
मा꣡ नो꣢ हृणीथा꣣ अ꣡ति꣢थिं꣣ व꣡सु꣢र꣣ग्निः꣡ पु꣢रुप्रश꣣स्त꣢ ए꣣षः꣢ । यः꣢ सु꣣हो꣡ता꣢ स्वध्व꣣रः꣢ ॥११०॥

मा꣢ । नः꣣ । हृणीथाः । अ꣡ति꣢꣯थिम् । व꣡सुः꣢ । अ꣣ग्निः꣢ । पु꣣रुप्रशस्तः꣢ । पु꣣रु । प्रशस्तः꣢ । ए꣣षः꣢ । यः । सु꣣हो꣡ता꣢ । सु꣣ । हो꣡ता꣢꣯ । स्व꣣ध्वरः꣢ । सु꣣ । अध्वरः꣢ ॥११०॥

Mantra without Swara
मा नो हृणीथा अतिथिं वसुरग्निः पुरुप्रशस्त एषः । यः सुहोता स्वध्वरः ॥

मा । नः । हृणीथाः । अतिथिम् । वसुः । अग्निः । पुरुप्रशस्तः । पुरु । प्रशस्तः । एषः । यः । सुहोता । सु । होता । स्वध्वरः । सु । अध्वरः ॥११०॥

Samveda - Mantra Number : 110
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे मातः ! त्वम् (नः) अस्माकम् (अतिथिम्) अतिथिभूतम् अतिथिवत् पूज्यम् अग्निं परमात्मानम् (मा हृणीथाः) अवज्ञानेन वेदविरुद्धाचरणेन वा न कोपयस्व। हृणीयते क्रुध्यतिकर्मा। निघं० २।१२। हृणीङ् रोषणे लज्जायां च। (एषः२) अयम् (वसुः) निवासकः (अग्निः) तेजस्वी अग्रनायकः परमात्मा (पुरुप्रशस्तः) बहुभिः कीर्तितः विद्यते इति शेषः। पुरु इति बहुनाम। निघं० ३।१। शंसु स्तुतौ। (यः) परमात्मा (सुहोता) शोभनः दाता, (स्वध्वरः) सुष्ठुतयाऽस्माकं जीवनयज्ञस्य सञ्चालकश्च वर्तते। शोभनः अध्वरः जीवनयज्ञः यस्मात् स स्वध्वरः। अथ द्वितीयः—अतिथिपरः। हे गृहिणि ! त्वम् (नः) अस्माकम् (अतिथिम्) अभ्यागतम् आचार्योपदेशकसंन्यासिप्रभृतिम् (मा हृणीथाः) यथायोग्यसत्काराकरणेन रुष्टं मा कार्षीः। (एषः) अयम् (अग्निः) धर्मविद्यादिप्रकाशेन प्रकाशितः अतिथिः (वसुः) गृहस्थानां निवासकः, (पुरुप्रशस्तः) पुरुभिः बहुभिः अतिथिपूजां यज्ञं घोषयद्भिः (वेदादिशास्त्रैः३) प्रशस्तः कृतप्रशंसश्च वर्तते, (यः) विद्वान् अतिथिः (सुहोता) सदुपदेष्टा, (स्वध्वरः) श्रेष्ठः अध्वरः विद्याप्रचाररूपो यज्ञो यस्य तादृशश्च वर्तते ॥४॥ अत्र श्लेषालङ्कारः ॥४॥
Essence
यथा सुपूजितः परमेश्वरः पूजकाय सद्गुणादिसम्पत्तिं प्रदाय तत्कल्याणं करोति, तथैव सुसत्कृतोऽतिथिराशीर्वाद-सदुपदेशादि-प्रदानेन गृहस्थमुपकरोति। अतः परमेश्वरोपासनेऽतिथिसत्कारे च कदापि प्रमादो न विधेयः ॥४॥
Subject
अथ परमात्मपूजाऽतिथिसत्कारविषयमाह।
Footnote
१. ऋ० ८।१०३।१२, ऋषिः सोभरिः काण्वः। प्रथमे पादे मा नो हृणीतामतिथिर् इति पाठः। २. एषः, एषृ गतौ इत्यस्यैतद् रूपम्, गन्ता—इति वि०। भरतसायणयोर्मते तु एषः इति एतदः एव रूपम्। ३. अतिथियज्ञविषये द्रष्टव्यम्। अथ० ९।६, १५।१०-१३।