Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1099

1875 Mantra
Devata- पवमानः सोमः Rishi- पर्वतनारदौ काण्वौ Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
सं꣢ व꣣त्स꣡ इ꣢व मा꣣तृ꣢भि꣣रि꣡न्दु꣢र्हिन्वा꣣नो꣡ अ꣢ज्यते । दे꣣वावी꣡र्मदो꣢꣯ म꣣ति꣢भिः꣣ प꣡रि꣢ष्कृतः ॥१०९९॥

सम् । व꣣त्सः꣢ । इ꣣व । मातृ꣡भिः꣢ । इ꣡न्दुः꣢꣯ । हि꣣न्वानः꣢ । अ꣣ज्यते । देवावीः꣢ । दे꣣व । अवीः꣢ । म꣡दः꣢꣯ । म꣣ति꣡भिः꣢ । प꣡रि꣢꣯ष्कृतः । प꣡रि꣢꣯ । कृ꣣तः ॥१०९९॥

Mantra without Swara
सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते । देवावीर्मदो मतिभिः परिष्कृतः ॥

सम् । वत्सः । इव । मातृभिः । इन्दुः । हिन्वानः । अज्यते । देवावीः । देव । अवीः । मदः । मतिभिः । परिष्कृतः । परि । कृतः ॥१०९९॥

Samveda - Mantra Number : 1099
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(देवावीः) सदाचारिणां विदुषां रक्षकः, (मदः) उत्साहकरः, (इन्दुः) आनन्दरसेन क्लेदकः रसागारः परमेश्वरः (हिन्वानः) स्तोतॄन् शुभगुणकर्मसु प्रेरयन्, (मातृभिः) धेनुभिः (परिष्कृतः) अलङ्कृतः, (जिह्वया) लेहनेन स्वच्छीकृत (वत्सः इव) तर्णकः इव (मतिभिः) स्तुतिभिः (परिष्कृतः) अलङ्कृतः सन्। [भूषणार्थे ‘संपर्युपेभ्यः करोतौ भूषणे’। अ० ६।१।१३७ इति सुडागमः, ‘परिनिविम्यः। अ० ८।३।७०’ इति षत्वम्।] (सम् अज्यते) समक्तो भवति, अन्तरात्मनि प्रकटीभवति ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
गोभिर्जिह्वया लेहनेन वत्सो यथाऽलङ्क्रियते तथा स्तोतृभिः स्तुतिभिः परमेश्वरोऽलङ्क्रियते। तदैव प्रच्छन्नः स उपासकस्याऽन्तरात्मन्याविर्भवति ॥२॥
Subject
अथ पुनः परमात्मविषयमाह।
Footnote
१. ऋ० ९।१०५।२।