Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1098

1875 Mantra
Devata- पवमानः सोमः Rishi- पर्वतनारदौ काण्वौ Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
तं꣡ वः꣢ सखायो꣣ म꣡दा꣢य पुना꣣न꣢म꣣भि꣡ गा꣢यत । शि꣢शुं꣣ न꣢ ह꣣व्यैः꣡ स्व꣢दयन्त गू꣣र्ति꣡भिः꣢ ॥१०९८॥

त꣢म् । वः꣣ । सखायः । स । खायः । म꣡दा꣢꣯य । पु꣣नान꣢म् । अ꣣भि꣢ । गा꣣यत । शि꣡शु꣢꣯म् । न । ह꣡व्यैः꣢꣯ । स्व꣣दयन्त । गूर्ति꣡भिः꣢ ॥१०९८॥

Mantra without Swara
तं वः सखायो मदाय पुनानमभि गायत । शिशुं न हव्यैः स्वदयन्त गूर्तिभिः ॥

तम् । वः । सखायः । स । खायः । मदाय । पुनानम् । अभि । गायत । शिशुम् । न । हव्यैः । स्वदयन्त । गूर्तिभिः ॥१०९८॥

Samveda - Mantra Number : 1098
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सखायः) सुहृदः ! (वः मदाय) युष्माकम् आनन्दप्राप्तये उत्साहप्राप्तये च, यूयम् (तम्) प्रसिद्धम् (पुनानम्) पवित्रयन्तं सोमं जगत्पतिं परमेश्वरम् (अभि) अभिलक्ष्य (गायत) स्तुतिगीतानि प्रोच्चारयत। अन्येऽपि जनाः तम् (गूर्तिभिः) उद्यमैः, पुरुषार्थैः। [गुरी उद्यमने, तुदादिः। ततः क्तिच्।] (स्वदयन्त) प्रसादयन्तु, कथमिव ? (शिशुं न) शिशुं यज्ञाग्निं यथा (हव्यैः) हविर्भिः (स्वदयन्ति) तर्पयन्ति तथा ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
यथा यज्ञाग्निर्हविर्भिर्जागर्ति तथा परमात्मा मनुष्यस्य पुरुषार्थैः प्रसीदति। तस्य स्तुतिगीतानि गायद्भिः सर्वैः स्वजीवनमुन्नेतव्यम् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५६९ क्रमाङ्के परमात्मविषये व्याख्याता। अत्रापि प्रकारान्तरेण स एव विषयो वर्ण्यते।
Footnote
१. ऋ० ९।१०५।१, ‘हव्यैः’ इत्यत्र ‘य॒ज्ञैः’। साम० ५६९।