Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1096

1875 Mantra
Devata- पवमानः सोमः Rishi- ऋणंचयो राजर्षिः Chhand- यवमध्या गायत्री Swara- षड्जः
Mantra with Swara
स꣡ सु꣢न्वे꣣ यो꣡ वसू꣢꣯नां꣣ यो꣢ रा꣣या꣡मा꣢ने꣣ता꣡ य इडा꣢꣯नाम् । सो꣢मो꣣ यः꣡ सु꣢क्षिती꣣ना꣢म् ॥१०९६॥

सः꣢ । सु꣣न्वे । यः꣡ । व꣡सू꣢꣯नाम् । यः । रा꣡या꣢म् । आ꣣नेता꣢ । आ꣣ । नेता꣢ । यः । इ꣡डा꣢꣯नाम् । सो꣡मः꣢꣯ । यः । सु꣣क्षितीना꣢म् । सु꣣ । क्षितीना꣢म् ॥१०९६॥

Mantra without Swara
स सुन्वे यो वसूनां यो रायामानेता य इडानाम् । सोमो यः सुक्षितीनाम् ॥

सः । सुन्वे । यः । वसूनाम् । यः । रायाम् । आनेता । आ । नेता । यः । इडानाम् । सोमः । यः । सुक्षितीनाम् । सु । क्षितीनाम् ॥१०९६॥

Samveda - Mantra Number : 1096
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः सोमः) असौ सर्वान्तर्यामी परमेश्वरः (सुन्वे) सुनुते उत्पादयति सर्वं जगत्। [षुञ् अभिषवे, स्वादिः, ‘सुनुते’ इति प्राप्ते ‘लोपस्त आत्मनेपदेषु’ अ० ७।१।४१ इति तलोपे यणि रूपम्।] कीदृशः असौ ? (यः वसूनाम्) हिरण्यादिधनानाम्, (यः रायाम्)विद्यारोग्यसत्याहिंसान्यायवैराग्यादि- धनानाम्, (यः इडानाम्) धेनूनां भूमीनां च, (यः सुक्षितीनाम्)। शोभनाः क्षितयो मनुष्या येषु तेषां राष्ट्राणां च। [‘नञ्सुभ्याम्’ अ० ६।२।१७२ इत्यनेन बहुव्रीहौ सोः परमुत्तरपदमन्तोदात्तम्।] (आनेता) प्रापयिता भवति ॥१॥
Essence
परमात्मानमतिरिच्य कोऽन्यो रजतहिरण्य-भूम्यन्तरिक्षसरित्समुद्राग्निवायुजलविद्युत्सूर्य-वृक्षवनस्पतिमनुष्यधेनुतुरगादिजडचेतनपदार्थानां वेदविद्यासत्याहिंसादिगुणानां धार्मिकजनानां चोत्पादयिता भवेदिति सोऽस्माभिः कृतज्ञतया प्रशंसनीयो वन्दनीयः पूजनीयश्च ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५८२ क्रमाङ्के परमात्मविषये व्याख्याता। अत्रापि स एव विषयो वर्ण्यते।
Footnote
१. ऋ० ९।१०८।१३, साम० ५८२।