Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1095

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्वे꣡ विश्वे꣢꣯ स꣣जो꣡ष꣢सो दे꣣वा꣡सः꣢ पी꣣ति꣡मा꣢शत । म꣡दे꣢षु सर्व꣣धा꣡ अ꣢सि ॥१०९५॥

त्वे꣡इति꣢ । वि꣡श्वे꣢꣯ । स꣣जो꣡ष꣢सः । स꣣ । जो꣡ष꣢꣯सः । दे꣣वा꣡सः꣢ । पी꣡ति꣢म् । आ꣣शत । म꣡दे꣢꣯षु । स꣣र्व꣢धाः । स꣣र्व । धाः꣢ । अ꣣सि ॥१०९५॥

Mantra without Swara
त्वे विश्वे सजोषसो देवासः पीतिमाशत । मदेषु सर्वधा असि ॥

त्वेइति । विश्वे । सजोषसः । स । जोषसः । देवासः । पीतिम् । आशत । मदेषु । सर्वधाः । सर्व । धाः । असि ॥१०९५॥

Samveda - Mantra Number : 1095
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम ज्ञानरसागार आचार्य ! (विश्वे) सर्वे (सजोषसः) सप्रीतयः (देवासः) दिव्यगुणयुक्ता ब्रह्मचारिणः शिष्याः (त्वे) त्वत्तः (पीतिम्) ज्ञानरसपानम् (आशत) प्राप्नुवन्ति। त्वम् (मदेषु) ज्ञानजनितेषु आनन्देषु (सर्वधाः) सर्वेषां शिष्याणां धारकः (असि) भवसि ॥३॥
Essence
ये शिष्यास्तपस्विनो ज्ञानानुरागिणो गुरूणां सत्कर्तारोऽहिंसासत्यास्तेयादि- दिव्यगुणयुक्ताश्च भवन्ति त एवाचार्यसकाशाज्ज्ञानग्रहणाधिकारिण- स्तत्प्रीतिपात्राणि च जायन्ते ॥३॥
Subject
अथ पुनरपि स एव विषय उच्यते।
Footnote
१. ऋ० ९।१८।३, ‘त्वे’ इत्यत्र ‘तव॒’ इति पाठः।