Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1094

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्वं꣢꣫ विप्र꣣स्त्वं꣢ क꣣वि꣢꣫र्मधु꣣ प्र꣢ जा꣣त꣡मन्ध꣢꣯सः । म꣡दे꣢षु सर्व꣣धा꣡ अ꣢सि ॥१०९४॥

त्व꣢म् । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । त्व꣢म् । क꣣विः꣢ । म꣡धु꣢꣯ । प्र । जा꣣त꣢म् । अ꣡न्ध꣢꣯सः । म꣡दे꣢꣯षु । स꣣र्वधाः꣢ । स꣣र्व । धाः꣢ । अ꣣सि ॥१०९४॥

Mantra without Swara
त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः । मदेषु सर्वधा असि ॥

त्वम् । विप्रः । वि । प्रः । त्वम् । कविः । मधु । प्र । जातम् । अन्धसः । मदेषु । सर्वधाः । सर्व । धाः । असि ॥१०९४॥

Samveda - Mantra Number : 1094
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम ज्ञानरसागार आचार्य ! (त्वं विप्रः) त्वं ब्राह्मणस्वभावः असि, (त्वं कविः) त्वं मेधावी विद्वांश्च असि। तव (अन्धसः) ज्ञानरसात् (मधु प्रजातम्) मधुरः ब्रह्मानन्दः प्रजायते। त्वम् (मदेषु) प्रदत्तेषु विद्यानन्देषु (सर्वधाः) सर्वेषां शिष्याणां धारकः (असि) भवसि ॥२॥
Essence
ज्ञानस्यागाधसमुद्रात् ब्राह्मणवृत्तेर्मेधाविनो विदुष आचार्यात् यद् भौतिकं दिव्यं च ज्ञानं तत्कृत आनन्दश्च प्राप्यते तत्कारणात् स सर्वेषां पूज्यो भवति ॥२॥
Subject
अथ पुनर्गुरुशिष्यविषयमाह।
Footnote
१. ऋ० ९।१८।२।