Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1093

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡रि꣢ स्वा꣣नो꣡ गि꣢रि꣣ष्ठाः꣢ प꣣वि꣢त्रे꣣ सो꣡मो꣢ अक्षरत् । म꣡दे꣢षु सर्व꣣धा꣡ अ꣢सि ॥१०९३॥

प꣡रि꣢꣯ । स्वा꣣नः꣢ । गि꣣रिष्ठाः꣢ । गि꣣रि । स्थाः꣢ । प꣣वि꣡त्रे꣢ । सो꣡मः꣢꣯ । अ꣣क्षरत् । म꣡दे꣢꣯षु । स꣣र्वधाः꣢ । स꣣र्व । धाः꣢ । अ꣣सि ॥१०९३॥

Mantra without Swara
परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् । मदेषु सर्वधा असि ॥

परि । स्वानः । गिरिष्ठाः । गिरि । स्थाः । पवित्रे । सोमः । अक्षरत् । मदेषु । सर्वधाः । सर्व । धाः । असि ॥१०९३॥

Samveda - Mantra Number : 1093
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(गिरिष्ठाः) गिरीणामुपह्वरे गुरुकुले स्थितः। [उपह्वरे गिरीणां सङ्गमे च नदीनाम्। धिया विप्रो अजायत ॥ साम० १४३ इति श्रुतेः।] (सोमः) ज्ञानरसागारः आचार्यः (स्वानः) सुवानः, ज्ञानरसं प्रेरयन् (पवित्रे) शिष्याणां पवित्रे आत्मनि (परि अक्षरत्) परिक्षरति, ज्ञानरसं सिञ्चति। हे आचार्यवर ! त्वम् (मदेषु) प्रदत्तेषु आनन्देषु (सर्वधाः) सर्वेषां शिष्याणां धारयिता (असि) भवसि ॥१॥
Essence
आचार्यः शिष्येभ्यो यज्ज्ञानं ब्रह्मानन्दं च प्रयच्छति तस्य तुला संसारे नास्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४७५ क्रमाङ्के आनन्दरसप्रवाहविषये व्याख्याता। अत्र गुरुशिष्यविषयो वर्ण्यते।
Footnote
१. ऋ० ९।१८।१ ‘परि॑सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो॑ अक्षाः’ इति पाठः। साम० ४७५।