Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1092

1875 Mantra
Devata- इन्द्रः Rishi- मान्धाता यौवनाश्वः Chhand- महापङ्क्तिः Swara- पञ्चमः
Mantra with Swara
अ꣡व꣢ स्म दुर्हृणाय꣣तो꣡ मर्त्त꣢꣯स्य तनुहि स्थि꣣र꣢म् । अ꣣धस्पदं꣡ तमीं꣢꣯ कृधि꣣ यो꣢ अस्मा꣡ꣳ अ꣢भि꣣दा꣡स꣢ति । दे꣣वी꣡ जनि꣢꣯त्र्यजीजनद्भ꣣द्रा꣡ जनि꣢꣯त्र्यजीजनत् ॥१०९२॥

अ꣡व꣢꣯ । स्म꣣ । दुर्हृणायतः꣢ । दुः꣣ । हृणायतः꣢ । म꣡र्त्त꣢꣯स्य । त꣣नुहि । स्थिर꣢म् । अ꣣धस्पद꣢म् । अ꣣धः । प꣢दम् । तम् । ई꣣म् । कृधि । यः꣢ । अ꣣स्मा꣢न् । अ꣣भिदा꣡स꣢ति । अ꣣भि । दा꣡स꣢꣯ति । दे꣣वी꣢ । ज꣡नि꣢꣯त्री । अ꣡जीजनत् । भद्रा꣢ । ज꣡नि꣢꣯त्री । अ꣣जीजनत् ॥१०९२॥

Mantra without Swara
अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरम् । अधस्पदं तमीं कृधि यो अस्माꣳ अभिदासति । देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥

अव । स्म । दुर्हृणायतः । दुः । हृणायतः । मर्त्तस्य । तनुहि । स्थिरम् । अधस्पदम् । अधः । पदम् । तम् । ईम् । कृधि । यः । अस्मान् । अभिदासति । अभि । दासति । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥१०९२॥

Samveda - Mantra Number : 1092
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र वीर मानव ! त्वम् (दुर्हृणायतः मर्तस्य) दुःखप्रदं हननमाचरतः दुष्टस्य मनुष्यस्य (स्थिरम्) दृढं बलम् (अव तनुहि स्म) नीचीनं कुरु। (तम् ईम्) तम् एनम् (अधस्पदं कृधि) पादयोरधस्तात् कुरु (यः) शत्रुः (अस्मान्) वीरान् (अभिदासति) दासान् कर्तुमुद्युङ्क्ते। त्वाम् (देवीजनित्री) दिव्यगुणा जगज्जननी (अजीजनत्) जनितवती, (भद्रा जनित्री) श्रेष्ठा मानवी माता (अजीजनत्) जनितवती ॥३॥
Essence
हे मानव ! गाढनिद्रां परित्यज्य जागृहि। त्वं दिव्याया जनन्याः पुत्रोऽसि, भद्राया जनन्याः पुत्रोऽसि। यस्त्वां दासं कर्तुमिच्छति, जिघांसति वा तस्य मनोरथं स्ववीरतया विफलय। जगति सर्वोच्चस्थानं लभस्व ॥३॥ अस्मिन् खण्डे योगस्य, परमात्मनो, वीरोद्बोधनस्य, नृपत्याचार्ययोगिशिल्पकाराणां च विषयवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० १०।१३४।२, ‘दुर्हृणायतो’ इत्यत्र ‘दुर्हणाय॒तो’, ‘अभिदासति’ इत्यत्र ‘आ॒दिदे॑शति’।