Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1091

1875 Mantra
Devata- इन्द्रः Rishi- मान्धाता यौवनाश्वः0पूर्वार्धः, गोधा ऋषिका0उत्तरार्धः Chhand- महापङ्क्तिः Swara- पञ्चमः
Mantra with Swara
दी꣣र्घ꣡ꣳ ह्य꣢ङ्कु꣣शं꣡ य꣢था꣣ श꣢क्तिं꣣ बि꣡भ꣢र्षि मन्तुमः । पू꣡र्वे꣢ण मघवन्प꣣दा꣢ व꣣या꣢म꣣जो꣡ यथा꣢꣯ यमः । दे꣣वी꣡ जनि꣢꣯त्र्यजीजनद्भ꣣द्रा꣡ जनि꣢꣯त्र्यजीजनत् ॥१०९१॥

दी꣣र्घ꣢म् । हि । अ꣣ङ्कुश꣢म् । य꣣था । श꣡क्ति꣢꣯म् । बि꣡भ꣢꣯र्षि । म꣣न्तुमः । पू꣡र्वे꣢꣯ण । म꣣घवन् । पदा꣢ । व꣣या꣢म् । अ꣣जः꣢ । य꣡था꣢꣯ । य꣣मः । दे꣣वी꣢ । ज꣡नि꣢꣯त्री । अ꣣जीजनत् । भद्रा꣢ । ज꣡नि꣢꣯त्री । अ꣣जीजनत् ॥१०९१॥

Mantra without Swara
दीर्घꣳ ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः । पूर्वेण मघवन्पदा वयामजो यथा यमः । देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥

दीर्घम् । हि । अङ्कुशम् । यथा । शक्तिम् । बिभर्षि । मन्तुमः । पूर्वेण । मघवन् । पदा । वयाम् । अजः । यथा । यमः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥१०९१॥

Samveda - Mantra Number : 1091
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (मन्तुमः) ज्ञानवन् इन्द्र वीर मानव ! [मन्तुमन् इति प्राप्ते ‘मतुवसो रु सम्बुद्धौ छन्दसि’। अ० ८।३।१ इत्यनेन नकारस्य रुः।] त्वम् (दीर्घं हि अङ्कुशं यथा) सुदीर्घम् अङ्कुशमिव (शक्तिम्) बलम् (बिभर्षि) धारयसि। हे (मघवन्) धनवन् ! (पूर्वेण पदा) अग्रेण पादेन (अजः) छागः (वयां यथा) शाखामिव, शाखां यथा गृह्णाति तथेत्यर्थः [वयाः शाखाः वेतेर्वातायना भवन्ति। निरु० १।४।] त्वम् शत्रून् (यमः) नियमय। [यमेर्लेटि अडागमः।] त्वाम् (देवी जनित्री) दिव्यगुणमयी जगन्माता (अजीजनत्) अजनयत्, (भद्रा जनित्री) श्रेष्ठा मानवी माता (अजीजनत्) अजनयत् ॥२॥ अत्रोपमालङ्कारः। द्वयोरुपमयोः संसृष्टिः ॥२॥
Essence
हे मानव ! त्वं स्वकीयाया मातुर्नाम मा कलङ्कय। त्वं स्वकीयामद्वितीयां शक्तिं परिचिनु। मित्रैः सौहार्दं शत्रुभिश्च संघर्षं कृत्वा समराङ्गणे विजयस्व ॥२॥
Subject
अथ पुनरपि वीरो मानवः सम्बोध्यते।
Footnote
१. ऋ० १०।१३४।६।