Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 109

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
तं꣡ गू꣢र्धया꣣꣬ स्व꣢꣯र्णरं दे꣣वा꣡सो꣢ दे꣣व꣡म꣢र꣣तिं꣡ द꣢धन्विरे । दे꣣वत्रा꣢ ह꣣व्य꣡मू꣢हिषे ॥१०९॥

त꣢म् । गू꣣र्धय । स्व꣢꣯र्णरम् । स्वः꣢꣯ । न꣣रम् । देवा꣡सः꣢ । दे꣣व꣢म् । अ꣣रति꣢म् । द꣣धन्विरे । देवत्रा꣢ । ह꣣व्य꣢म् । ऊ꣣हिषे ॥१०९॥

Mantra without Swara
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे । देवत्रा हव्यमूहिषे ॥

तम् । गूर्धय । स्वर्णरम् । स्वः । नरम् । देवासः । देवम् । अरतिम् । दधन्विरे । देवत्रा । हव्यम् । ऊहिषे ॥१०९॥

Samveda - Mantra Number : 109
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मानव ! त्वम् (तम्) प्रसिद्धम् (स्वर्णरम्२) मोक्षानन्दस्य प्रापयितारम् परमात्माग्निम्। स्वः मोक्षादिसुखं नृणाति प्रापयतीति स्वर्णरः तम्। स्वः इति सुखनाम। नॄ नये क्र्यादिः। (गूर्धय) अर्च। गूर्धयतिः अर्चतिकर्मा। निघं० ३।१४। संहितायाम् अन्येषामपि दृश्यते।’ अ० ६।३।१३७ इति दीर्घः। यम् (देवम्) तेजसा दीप्तं दीपयितारं च (अरतिम्३) सर्वान्तर्यामिनम्, पुरुषार्थे प्रेरकम्, पापादिसंहारकम् परमात्माग्निम्। ऋच्छति व्याप्नोति सर्वत्र, अर्पयति प्रेरयति पुरुषार्थे, ऋणोति हिनस्ति पापादिकं वा यः सः अरतिः। ऋ गतिप्रापणयोः इति, ऋ हिंसायाम् इति वा धातोः ‘बहिवस्यर्तिभ्यश्चित्।’ उ० ४।६० इत्यनेन अतिः प्रत्ययः। (देवासः) देवाः विद्वांसः (दधन्विरे) स्वान्तःकरणे धारयन्ति। डुधाञ् धारणपोषणयोः धातोर्द्विविकरणत्वे छान्दसं रूपमिदम्। यद्वा धन्वतिः गतिकर्मा। निघं० २।१४। तस्य लडर्थे लिटि रूपम्। व्यत्ययेनात्मनेपदम्। अथ परमात्माग्निः सम्बोध्यते—हे परमात्माग्ने ! त्वम् (देवत्रा) देवेषु विद्वत्सु। ‘देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्।’ अ० ५।४।५६ इति सप्तम्यर्थे त्रा प्रत्ययः। (हव्यम्) दातव्यं बलम् (ऊहिषे) वहसि। अत्र वह प्रापणे धातोः कालसामान्ये लिट्, मध्यमैकवचने रूपम्। तिङ्स्वरः ॥३॥
Essence
मनीषिणो जना यं देवाधिदेवं जगत्स्रष्टारं जगदीश्वरमाराध्य धर्मार्थकाममोक्षादिसुखं प्राप्नुवन्ति, स सर्वैरेव जनैः कुतो नोपासनीयः ॥३॥
Subject
अथ परमात्मार्चनाय प्रेरयति।
Footnote
१. ऋ० ८।१९।१, हव्यमूहिषे इत्यत्र हव्यमोहिरे इति पाठः। साम० १६८७। २. स्वर्णरं सर्वस्य नेतारम्। स्वः शब्दः सर्वशब्दपर्यायः। अपि वा स्वर्गस्य नेतारम्—इति भ०। स्वर्णरं सर्वस्य नेतारं, सर्वैः यजमानैः कर्मादौ नेतव्यं वा, अथवा स्वर्गं प्रति हविषां नेतारम्—इति सा०। स्वः, लुप्तोपमम् इदं द्रष्टव्यम्, स्वरिव आदित्यमिवेत्यर्थः, नरं नराकारम्—इति वि०। स्वः, नरम् इति पृथक् पदद्वयमिति पदकृत्पाठात् स्वरश्रुतेश्च स्पष्टमवगम्यते, विवरणकारश्चैवमेव व्याचष्टे—इति सत्यव्रतसामश्रमी। तत्तु चिन्त्यम्, उपलब्धपदपाठपुस्तकेषु समस्तपदत्वेनैव प्रदर्शितत्वात्। ऋग्वेदपदकारेणापि सर्वत्र स्व॑र्णरम् इति पदं स्वः॑ऽनरम् इति समस्तपदत्वेनैव निरूपितम्, सायणादिभिश्च तथैव व्याख्यातम्। समस्तपदत्वेन स्वीकृते सति स्वरोऽपि संगच्छत एव। स्वर् इति न्यङ्स्वरौ स्वरितौ इति स्वरितम्, तत्पुरुषेऽव्ययपूर्वपदप्रकृतिस्वरः। ३. अरतिम् अलं मतिम् पर्याप्तमतिं सर्वज्ञमित्यर्थः। अथवा देवान् यजमानांश्च प्रति गन्तारम्—इति वि०।