Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1089

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡था꣢ ते꣣ अ꣡न्त꣢मानां वि꣣द्या꣡म꣢ सुमती꣣ना꣢म् । मा꣢ नो꣣ अ꣡ति꣢ ख्य꣣ आ꣡ ग꣢हि ॥१०८९॥

अ꣡थ꣢꣯ । ते꣣ । अ꣡न्त꣢꣯मानाम् । वि꣣द्या꣡म꣢ । सु꣣मतीना꣢म् । सु꣣ । मतीना꣢म् । मा । नः꣣ । अ꣡ति꣢꣯ । ख्यः꣣ । आ꣢ । ग꣣हि ॥१०८९॥

Mantra without Swara
अथा ते अन्तमानां विद्याम सुमतीनाम् । मा नो अति ख्य आ गहि ॥

अथ । ते । अन्तमानाम् । विद्याम । सुमतीनाम् । सु । मतीनाम् । मा । नः । अति । ख्यः । आ । गहि ॥१०८९॥

Samveda - Mantra Number : 1089
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र ! परमात्मन् राजन् आचार्य योगगुरो शिल्पकार वा ! (अथ) अपि च, वयम्, (ते) तव (अन्तमानाम्) अन्तिकतमानाम् (सुमतीनाम्) प्रशस्तानां मतीनाम् (विद्याम) जानीयाम। त्वम् (नः अति) अस्मान् अतिक्रम्य (मा ख्यः) स्वोपदेशं मा कार्षीः, प्रत्युत (आ गहि) अस्मान् आगच्छ, आगम्य च स्वदत्तीनां पात्रमस्मान् कुर्विति भावः ॥३॥२
Essence
परमात्मनो नृपतेराचार्यस्य योगिनः शिल्पिनश्च यानि ज्ञानानि कर्माणि च सन्ति तत उपकारान् गृहीत्वा स्वात्मा समुन्नेयः ॥३॥
Subject
अथ पुनरपि तानेव सम्बोधयति।
Footnote
१. ऋ० १।४।३, अथ० २०।५७।३, ६८।३। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं परमेश्वरविषये व्याख्यातः।