Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1088

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣡प꣢ नः꣣ स꣢व꣣ना꣡ ग꣢हि꣣ सो꣡म꣢स्य सोमपाः पिब । गो꣣दा꣢꣫ इद्रे꣣व꣢तो꣣ म꣡दः꣢ ॥१०८८॥

उ꣡प꣢꣯ । नः꣣ । स꣡व꣢꣯ना । आ । ग꣣हि । सो꣡म꣢꣯स्य । सो꣡मपाः । सोम । पाः । पिब । गोदाः꣢ । गो꣣ । दाः꣢ । इत् । रे꣣व꣡तः꣢ । म꣡दः꣢꣯ ॥१०८८॥

Mantra without Swara
उप नः सवना गहि सोमस्य सोमपाः पिब । गोदा इद्रेवतो मदः ॥

उप । नः । सवना । आ । गहि । सोमस्य । सोमपाः । सोम । पाः । पिब । गोदाः । गो । दाः । इत् । रेवतः । मदः ॥१०८८॥

Samveda - Mantra Number : 1088
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमात्मन् राजन् आचार्य योगिन् शिल्पकार वा ! त्वम् (नः) अस्माकम् (सवना) उपासनायज्ञान्, प्रजाभिः कृतानुत्सवान्, शिक्षासत्राणि, योगशिविराणि शिल्पयज्ञान् वा (आ गहि) आगच्छ, (सोमपाः) रसस्य पाता त्वम् (सोमस्य) भक्तिरसस्य वीररसस्य, विद्यारसस्य, ध्यानरसस्य, कलारसस्य वा (पिब) पानं कुरु। (रेवतः) रयिमतः ऐश्वर्यवतः तव (मदः) उत्साहः (इत्) सत्यमेव (गोदाः) गवाम् अध्यात्मप्रकाशानाम्, धेनूनाम्, वेदवाचाम् योगशास्त्रवाचाम्, शिल्पशास्त्रवाचां वा दाता अस्ति ॥२॥२
Essence
परमात्मानमुपास्य नृपतिमाचार्यं योगिनं शिल्पकारं च सत्कृत्य तत्सकाशाद् यथायोग्यं लाभाः सर्वैः प्राप्तव्याः ॥२॥
Subject
अथ परमात्मनो नृपतेराचार्यस्य योगिनः शिल्पकारस्य च विषयमाह।
Footnote
१. ऋ० १।४।२, अथ० २०।५७।२, ६८।२। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सूर्यपक्षे व्याख्यातः।