Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1087

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
सु꣣रूपकृत्नु꣢मू꣣त꣡ये꣢ सु꣣दु꣡घा꣢मिव गो꣣दु꣡हे꣢ । जु꣣हू꣢मसि꣣ द्य꣡वि꣢द्यवि ॥१०८७॥

सु꣣रूपकृत्नु꣢म् । सु꣣रूप । कृत्नु꣢म् । ऊ꣣त꣡ये꣢ । सु꣣दु꣡घा꣢म् । सु꣣ । दु꣡घा꣢꣯म् । इ꣣व । गोदु꣡हे꣢ । गो꣣ । दु꣡हे꣢꣯ । जु꣣हूम꣡सि꣢ । द्य꣡वि꣢꣯द्यवि । द्य꣡वि꣢꣯ । द्य꣣वि ॥१०८७॥

Mantra without Swara
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । जुहूमसि द्यविद्यवि ॥

सुरूपकृत्नुम् । सुरूप । कृत्नुम् । ऊतये । सुदुघाम् । सु । दुघाम् । इव । गोदुहे । गो । दुहे । जुहूमसि । द्यविद्यवि । द्यवि । द्यवि ॥१०८७॥

Samveda - Mantra Number : 1087
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
वयम् (ऊतये) योगमार्गे प्रवेशाय, रूपवतां पदार्थानां प्राप्तये वा। [अव धातोरर्थेषु प्रवेशावाप्ती अप्यर्थौ पठितौ।] (सुरूपकृत्नुम्) शोभनानां रूपाणां यमनियमासनप्राणायामप्रत्याहारधारणाध्यान-समाधीनाम् कारयितारम् इन्द्रं गुरुम्, शोभनानां रूपवतां पदार्थानां कर्तारम् इन्द्रं शिल्पकारं वा (द्यविद्यवि) दिनेदिने (जुहूमसि) आह्वयामः। कथमिव ? (गोदुहे) गोदुग्धमिच्छवे गवां दोग्ध्रे (सुदुघाम् इव) यथा सुष्ठुदोग्ध्रीं गाम् आह्वयन्ति तद्वत् ॥१॥२ अत्रोपमालङ्कारः ॥१॥
Essence
यथा गोदुग्धप्राप्तये गौराहूयते तथा योगाभ्यासाय योगी गुरः शिल्पोन्नतये च शिल्पकार आह्वातव्यः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १६० क्रमाङ्के परमात्मनो नृपतेराचार्यस्य च विषये व्याख्याता। अत्र योगमार्गस्य गुरुः शिल्पकारश्च आहूयते।
Footnote
१. ऋ० १।४।१, अथ० २०।५७।१, ६८।१, साम० १६०। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्र एष परमेश्वरपक्षे व्याख्यातः।