Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1085

1875 Mantra
Devata- इन्द्रः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣢ घ꣣ त्वा꣢वान्꣣ त्म꣡ना꣢ यु꣣क्तः꣢ स्तो꣣तृ꣡भ्यो꣢ धृष्णवीया꣣नः꣢ । ऋ꣣णो꣢꣫रक्षं꣣ न꣢ च꣣꣬क्र्योः꣢꣯ ॥१०८५॥

आ । घ꣣ । त्वा꣡वा꣢꣯न् । त्म꣡ना꣢꣯ । यु꣣क्तः꣢ । स्तो꣣तृ꣡भ्यः꣢ । धृ꣣ष्णो । ईयानः꣢ । ऋ꣣णोः꣢ । अ꣡क्ष꣢꣯म् । न । च꣣क्र्योः꣢ ॥१०८५॥

Mantra without Swara
आ घ त्वावान् त्मना युक्तः स्तोतृभ्यो धृष्णवीयानः । ऋणोरक्षं न चक्र्योः ॥

आ । घ । त्वावान् । त्मना । युक्तः । स्तोतृभ्यः । धृष्णो । ईयानः । ऋणोः । अक्षम् । न । चक्र्योः ॥१०८५॥

Samveda - Mantra Number : 1085
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (धृष्णो) शत्रुधर्षणशील इन्द्र परमात्मन् ! (ईयानः) उपासकैः याच्यमानः। [ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९।] (त्मना युक्तः) त्मना आत्मना आत्मबलेन युक्तः। [मन्त्रेष्वाङ्यादेरात्मनः। अ० ६।४।१४१ इत्याकारलोपः।] (त्वावान्) त्वादृशः त्वमेव। [वतुप्प्रकरणे युष्मदस्मभ्यां छन्दसि सादृश्य उपसंख्यानम्। अ० ५।२।३९ इत्यत्र स्थितेन वार्तिकेन युष्मच्छब्दात् सादृश्यार्थे वतुप्।] (घ) खलु (स्तोतृभ्यः) उपासकेभ्यो योगिभ्यः, योगसिद्धिम् (ऋणोः) प्रापयसि। [ऋणोतिः गतिकर्मा। निघं० २।१४। अत्र णिगर्भः। लडर्थे लङ्, अडभावश्छान्दसः।] कथमिव ? (चक्र्योः) द्वयोः रथचक्रयोः मध्ये (अक्षं न) धुरं यथा रथकारः प्रापयति तद्वत्। [चक्रिः इत्यत्र कृञ् धातोः ‘आदृगमहनजनः।’ अ० ३।२।१७१। इत्यनेन किः प्रत्ययः] ॥२॥२ अत्रोपमालङ्कारः ॥२॥
Essence
यथोभयो रथचक्रयोरक्षकीलकद्वारा योजनेनैव चक्रयोर्भ्रमणं रथस्याग्रे गमनं च संभवति तथैव योगिनो योगसिद्धिप्राप्त्यैव लक्ष्यारोहणं मोक्षलाभश्च सिध्यति ॥२॥
Subject
अथ पुनरपि योगस्यैव विषयमाह।
Footnote
१. ऋ० १।३०।१४, अथ० २०।१२२।२, उभयत्र ‘त्मना॒प्तः’ ‘धृष्णविया॒नः’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं राजप्रजाविषये व्याख्यातः।