Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1083

1875 Mantra
Devata- पवमानः सोमः Rishi- अमहीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣢ नो꣣ भ꣡गा꣢य वा꣣य꣡वे꣢ पू꣣ष्णे꣡ प꣢वस्व꣣ म꣡धु꣢मान् । चा꣡रु꣢र्मि꣣त्रे꣡ वरु꣢꣯णे च ॥१०८३॥

सः । नः꣣ । भ꣡गा꣢꣯य । वा꣣य꣡वे꣢ । पू꣣ष्णे꣢ । प꣣वस्व । म꣡धु꣢꣯मान् । चा꣡रुः꣢꣯ । मि꣣त्रे꣢ । मि꣣ । त्रे꣢ । व꣡रु꣢꣯णे । च꣣ ॥१०८३॥

Mantra without Swara
स नो भगाय वायवे पूष्णे पवस्व मधुमान् । चारुर्मित्रे वरुणे च ॥

सः । नः । भगाय । वायवे । पूष्णे । पवस्व । मधुमान् । चारुः । मित्रे । मि । त्रे । वरुणे । च ॥१०८३॥

Samveda - Mantra Number : 1083
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम ज्ञानरस ! (सः) असौ (मधुमान्) मधुरः त्वम् (नः) अस्माकम् (भगाय) सूर्यतुल्याय नृपतये, (वायवे) गतिमते सेनाध्यक्षाय, (पूष्णे) पशुपालनकृषिवाणिज्यादिना समाजस्य पोषकाय वैश्यजनाय च (पवस्व) प्रक्षर। अपि च (चारुः) रमणीयः त्वम् (मित्रे) राष्ट्रस्थे ब्राह्मणजने (वरुणे च) शत्रुनिवारके क्षत्रियजने चापि (पवस्व) प्रक्षर ॥३॥
Essence
राष्ट्रे ब्राह्मणक्षत्रियवैश्या नृपतिसेनापतिन्यायाध्यक्षादयः सामान्याः प्रजाजनाश्च सर्वेऽपि स्वस्वयोग्यतानुसारं ज्ञानस्य संचेतारो भवन्तु, येन राष्ट्रं प्रगतिपथमनुसरेत् ॥३॥ अस्मिन् खण्डे गुरुशिष्ययोः परमात्मजीवात्मनोर्ज्ञानरसस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्तीति वेद्यम् ॥
Subject
अथ पुनरपि ज्ञानरसविषय एव वर्ण्यते।
Footnote
१. ऋ० ९।६१।९।