Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1082

1875 Mantra
Devata- पवमानः सोमः Rishi- अमहीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡मिन्द्रे꣢꣯णो꣣त꣢ वा꣣यु꣡ना꣢ सु꣣त꣡ ए꣢ति प꣣वि꣢त्र꣣ आ꣢ । स꣡ꣳ सूर्य꣢꣯स्य र꣣श्मि꣡भिः꣢ ॥१०८२॥

स꣢म् । इ꣡न्द्रे꣢꣯ण । उ꣣त꣢ । वा꣣यु꣡ना꣢ । सु꣣तः꣢ । ए꣣ति । प꣣वि꣡त्रे꣢ । आ । सम् । सू꣡र्य꣢꣯स्य । र꣣श्मि꣡भिः꣢ ॥१०८२॥

Mantra without Swara
समिन्द्रेणोत वायुना सुत एति पवित्र आ । सꣳ सूर्यस्य रश्मिभिः ॥

सम् । इन्द्रेण । उत । वायुना । सुतः । एति । पवित्रे । आ । सम् । सूर्यस्य । रश्मिभिः ॥१०८२॥

Samveda - Mantra Number : 1082
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रेण) मनसा (उत) अपि च (वायुना) प्राणेन (सुतः) अभिषुतो ज्ञानरसः (पवित्रे) पवित्रे जीवात्मनि (सम् आ एति) समागच्छति, किञ्च (सूर्यस्य रश्मिभिः) आदित्यस्य किरणैः यद्वा चक्षुषो वृत्तिभिः। [चक्षुरसौ आदित्यः। ऐ० आ० २।१।५।] (सम्) समागच्छति ॥२॥
Essence
मनुष्यस्यात्मा यज्ज्ञानं सञ्चिनोति तत्र मनः प्राणो नेत्रवृत्तयोऽग्निर्वायुः सूर्यरश्मयो गुरुजनाः सर्वेऽपि कारणतां प्रपद्यन्ते ॥२॥
Subject
अथात्मनि ज्ञानं कथं जायत इत्याह।
Footnote
१. ऋ० ९।६१।८।