Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1081

1875 Mantra
Devata- पवमानः सोमः Rishi- अमहीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣त꣢मु꣣ त्यं꣢꣫ दश꣣ क्षि꣡पो꣢ मृ꣣ज꣢न्ति꣣ सि꣡न्धु꣢मातरम् । स꣡मा꣢दि꣣त्ये꣡भि꣢रख्यत ॥१०८१॥

ए꣣त꣢म् । उ꣣ । त्य꣢म् । द꣡श꣢꣯ । क्षि꣡पः꣢꣯ । मृ꣣ज꣡न्ति꣢ । सि꣡न्धु꣢꣯मातरम् । सि꣡न्धु꣢꣯ । मा꣣तरम् । स꣢म् । आ꣣दित्ये꣡भिः꣢ । आ꣣ । दित्ये꣡भिः꣢ । अ꣡ख्यत ॥१०८१॥

Mantra without Swara
एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् । समादित्येभिरख्यत ॥

एतम् । उ । त्यम् । दश । क्षिपः । मृजन्ति । सिन्धुमातरम् । सिन्धु । मातरम् । सम् । आदित्येभिः । आ । दित्येभिः । अख्यत ॥१०८१॥

Samveda - Mantra Number : 1081
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सिन्धुमातरम्) सिन्धुः आनन्दरसस्यन्दिनी जगदम्बा माता यस्य तथाविधम् (एतम् उ त्यम्) एतं खलु तम् सोमं जीवात्मानम् (दश क्षिपः) इन्द्रियदोषाणां प्रक्षेप्तारः दश प्राणाः (मृजन्ति) अलङ्कुर्वन्ति। एष सोमः जीवात्मा (आदित्येभिः) आदित्यवद् ज्ञानप्रकाशेन प्रकाशितैः गुरुजनैः (सम् अख्यत) विद्याप्रकाशं लभते ॥१॥
Essence
प्राणैः सहचरित एव मनुष्यस्यात्मा देहं जीवयति देहाधिष्ठातृत्वं च करोति। गुरूणामुपदेशं विना स स्वयमेव ज्ञानवान् न भवति ॥१॥
Subject
तत्रादौ जीवात्मविषयो वर्ण्यते।
Footnote
१. ऋ० ९।६१।७।