Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1080

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
पु꣣नानो꣢꣫ वारे꣣ प꣡व꣢मानो अ꣣व्य꣢ये꣣ वृ꣡षो꣢ अचिक्रद꣣द्व꣡ने꣢ । दे꣣वा꣡ना꣢ꣳ सोम पवमान निष्कृ꣣तं꣡ गोभि꣢꣯रञ्जा꣣नो꣡ अ꣢र्षसि ॥१०८०

पुनानः꣢ । वा꣡रे꣢꣯ । प꣡व꣢꣯मानः । अ꣡व्य꣡ये꣢ । वृ꣡षा꣢꣯ । उ꣣ । अचिक्रदत् । व꣡ने꣢꣯ । दे꣣वा꣡ना꣢म् । सो꣣म । पवमान । निष्कृत꣢म् । निः꣣ । कृत꣢म् । गो꣡भिः꣢꣯ । अ꣣ञ्जानः꣢ । अ꣣र्षसि ॥१०८०॥

Mantra without Swara
पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद्वने । देवानाꣳ सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ॥१०८०

पुनानः । वारे । पवमानः । अव्यये । वृषा । उ । अचिक्रदत् । वने । देवानाम् । सोम । पवमान । निष्कृतम् । निः । कृतम् । गोभिः । अञ्जानः । अर्षसि ॥१०८०॥

Samveda - Mantra Number : 1080
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वारे) वरणीये (अव्यये) अविमये पार्थिवे लोके। [इयं (पृथिवी) वा अविः, इयं हीमाः सर्वाः प्रजा अवति। श० ६।१।२।३३।] (पवमानः) गच्छन् (पुनानः) पवित्रतां च कुर्वन् (वृषा उ२) सुखादिवर्षकः परमात्मा खलु (वने) मेघोदके। [वनमित्युदकनाम निघं० १।१२।] (अचिक्रदत्) स्तनयित्नुशब्दं कारयति। हे (पवमान) पवित्रतादायक (सोम) जगत्स्रष्टः परमात्मन् ! त्वम् (देवानाम्) दिव्यानामग्निजलवाय्वादीनाम् (निष्कृतम्) गृहम् भूलोकमित्यर्थः (गोभिः) सूर्यरश्मिभिः (अञ्जानः) व्यक्तं कुर्वन् प्रकाशयन् (अर्षसि) कर्मण्योऽसि ॥२॥
Essence
अन्तरिक्षे मेघगर्जनं, वृष्टिद्वारा भूलोकस्य पवित्रीकरणं, सूर्यकिरणैर्भूमण्डलस्य प्रकाशनमित्यादि सर्वं कर्म जगत्पतिः परमेश्वर एव करोति, नान्यः कश्चित् ॥२॥
Subject
अथ परमात्मनः कर्माणि वर्ण्यन्ते।
Footnote
१. ऋ० ९।१०७।२२, ‘मृंजा॒नो वारे॒ पव॑मानो अ॒व्यये॒ वृषाव॑चक्रदो॒ वने॑’ इति पूर्वार्द्धपाठः। २. ‘वृषः वृषभसदृशः’ इति सायणीयं व्याख्यानं तु पदकारविरुद्धम्, पदपाठे ‘वृ꣡षा उ꣣’ इति पदच्छेदात्।