Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 108

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
प्र꣡ सो अ꣢꣯ग्ने꣣ त꣢वो꣣ति꣡भिः꣢ सु꣣वी꣡रा꣢भिस्तरति꣣ वा꣡ज꣢कर्मभिः । य꣢स्य꣣ त्व꣢ꣳ स꣣ख्य꣡मावि꣢꣯थ ॥१०८॥

प्र꣢ । सः । अ꣣ग्ने । त꣡व꣢꣯ । ऊ꣣ति꣡भिः꣢ । सु꣣वी꣡रा꣢भिः । सु꣣ । वी꣡रा꣢꣯भिः । त꣣रति । वा꣡ज꣢꣯कर्मभिः । वा꣡ज꣢꣯ । क꣣र्मभिः । य꣣स्य꣢꣯ । त्वम् । स꣣ख्य꣢म् । स꣣ । ख्य꣢म् । आ꣡वि꣢꣯थ ॥१०८॥

Mantra without Swara
प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः । यस्य त्वꣳ सख्यमाविथ ॥

प्र । सः । अग्ने । तव । ऊतिभिः । सुवीराभिः । सु । वीराभिः । तरति । वाजकर्मभिः । वाज । कर्मभिः । यस्य । त्वम् । सख्यम् । स । ख्यम् । आविथ ॥१०८॥

Samveda - Mantra Number : 108
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) ज्योतिर्मय ज्योतिष्प्रद परमात्मन् ! (सः) जनः (सुवीराभिः२) उत्कृष्टानां वीराणां वीरभावानां वीरपुत्राणां वा प्रापयित्रीभिः। शोभना वीरा याभिस्ताः सुवीराः ताभिः। बहुव्रीहौ वीरवीर्यौ च।’ अ० ६।२।१२० इति वीरशब्दः आद्युदात्तः। (वाजकर्मभिः) बलोत्साहकारिणीभिः। वाज इति बलनाम। निघं० २।९। वाजः कर्म कार्यं यासां ताभिः, बलकारणभूताभिः। वाजशब्दो घञन्तत्वात् ञित्स्वरेणाद्युदात्तः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (तव) त्वदीयाभिः (ऊतिभिः) रक्षाभिः (प्र तरति) प्रकर्षेण विघ्नान् संतरति, भवसागरं संतरति वा, (यस्य) जनस्य (त्वम्) जगदीश्वरः (सख्यम्) मैत्रीम् (आविथ) प्राप्नोषि। अव रक्षणगत्यादिषु। अत्र गत्यर्थः। गतिश्च प्राप्तिरूपा। लडर्थे लिट्। संहितायां सो अग्ने इत्यत्र प्रकृत्यान्तः पादमव्यपरे।’ अ० ६।१।११५ इति प्रकृतिभावः ॥२॥
Essence
परमात्मा यस्य सखा जायते तं पुरुषार्थिनं कामक्रोधादिर्वा वञ्चकलुण्ठकचौरादिर्वा कोऽपि शत्रुः पीडयितुं न शक्नोति ॥२॥
Subject
अथ परमात्मनः सख्येन को लाभ इति वर्णयति।
Footnote
१. ऋ० ८।१९।३० तरति, वाजकर्मभिः, सख्यमाविथ इत्यत्र क्रमेण तिरते, वाजभर्मभिः, सख्यमावरः इति पाठः। ऋषिः सोभरिः काण्वः। २. सुवीराभिः शोभनपुत्रपौत्रप्रदाभिः—इति भ०।