Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1079

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
मृ꣣ज्य꣡मा꣢नः सुहस्त्या समु꣣द्रे꣡ वाच꣢꣯मिन्वसि । र꣣यिं꣢ पि꣣श꣡ङ्गं꣢ बहु꣣लं꣡ पु꣢रु꣣स्पृ꣢हं꣣ प꣡व꣢माना꣣꣬भ्य꣢꣯र्षसि ॥१०७९॥

मृ꣣ज्य꣡मा꣢नः । सु꣣हस्त्य । सु । हस्त्य । समुद्रे꣢ । स꣣म् । उद्रे꣢ । वा꣡च꣢꣯म् । इ꣣न्वसि । रयि꣢म् । पि꣣श꣡ङ्ग꣢म् । ब꣣हुल꣢म् । पु꣣रुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् । प꣡व꣢꣯मान । अ꣣भि꣢ । अ꣢र्षसि ॥१०७९॥

Mantra without Swara
मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि । रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥

मृज्यमानः । सुहस्त्य । सु । हस्त्य । समुद्रे । सम् । उद्रे । वाचम् । इन्वसि । रयिम् । पिशङ्गम् । बहुलम् । पुरुस्पृहम् । पुरु । स्पृहम् । पवमान । अभि । अर्षसि ॥१०७९॥

Samveda - Mantra Number : 1079
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सुहस्त्य) सुहस्तकलाकुशल जगदीश्वर ! [हस्ते हस्तक्रियायां साधुः हस्त्यः, शोभनश्चासौ हस्त्यः सुहस्त्यः।] (मृज्यमानः) सद्गुणकर्मस्वभावैः अलङ्क्रियमाणः त्वम् (समुद्रे) अन्तरिक्षे। [समुद्र इत्यन्तरिक्षनाम। निघं० १।३।] (वाचम्) स्तनयित्नुशब्दम् (इन्वसि) प्रेरयसि। [इन्वति गतिकर्मा। निघं० २।१४।] अपि च, हे (पवमान) सर्वान्तर्यामिन् ! त्वम् (बहुलम्) प्रचुरम् (पुरुस्पृहम्) बहु स्पृहणीयम् (पिशङ्गं रयिम्) पिङ्गलवर्णं धनं सुवर्णादिकम् (अभि) अस्मान् प्रति (अर्षसि) गमयसि ॥१॥
Essence
अन्तरिक्षे मेघनिर्माणं, वृष्टिकर्मादिकं, निःशुल्कं बहुमूल्यधनाद्युत्पादनं च परमेश्वरस्यैव कर्म विद्यते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५१७ क्रमाङ्के परमात्मविषये व्याख्याता। अत्रापि स एव विषयः प्रकारान्तरेण वर्ण्यते।
Footnote
१. ऋ० ९।१०७।२१, ‘सुहस्त्य’ इति पाठः। साम० ५१७।