Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1078

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
र꣡सं꣢ ते मि꣣त्रो꣡ अ꣢र्य꣣मा꣡ पिब꣢꣯न्तु꣣ व꣡रु꣢णः कवे । प꣡व꣢मानस्य म꣣रु꣡तः꣢ ॥१०७८॥

र꣡स꣢꣯म् । ते꣣ । मित्रः꣢ । मि꣣ । त्रः꣢ । अ꣣र्यमा꣢ । पि꣡ब꣢꣯न्तु । व꣡रु꣢꣯णः । क꣣वे । प꣡व꣢꣯मानस्य । म꣣रु꣡तः꣢ ॥१०७८॥

Mantra without Swara
रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे । पवमानस्य मरुतः ॥

रसम् । ते । मित्रः । मि । त्रः । अर्यमा । पिबन्तु । वरुणः । कवे । पवमानस्य । मरुतः ॥१०७८॥

Samveda - Mantra Number : 1078
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (कवे) मेधाविन् विद्वद्वर आचार्य ! (पवमानस्य ते) शिष्याणां जीवनानि पवित्रीकुर्वतः तव (रसम्) विद्यारसम् (मित्रः) सर्वैः सह मित्रवद् व्यवहर्ता शिष्यः, (अर्यमा) शत्रुनिग्रहकर्ता शिष्यः। [अर्यमा अरीन् नियच्छति। निरु० ११।२३।] (वरुणः) स्वदोषनिवारणाय प्रयत्नशीलः शिष्यः, (मरुतः) अन्ये च शिष्याः (पिबन्तु) आस्वादयन्तु ॥३॥
Essence
शिष्याणां विभिन्ना योग्यता विभिन्ना गुणाश्च भवन्ति। तेषां योग्यतानुसारं तद्विकासो गुरुभिः कर्त्तव्यः। यस्मिन् यस्मिन् ब्राह्मणत्व-क्षत्रियत्व- वैश्यत्वादिगुणाः सन्ति स तदनुरूपविद्यादानेन तत्तद्वर्णाधिकारी कार्यः ॥३॥
Subject
अथ पुनरपि स एव विषय उच्यते।
Footnote
१. ऋ० ९।६४।२४, ‘पिबन्तु’ इत्यत्र ‘पिब॑न्ति॒’।