Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1077

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
तं꣢ त्वा꣣ वि꣡प्रा꣢ वचो꣣वि꣢दः꣣ प꣡रि꣢ष्कृण्वन्ति धर्ण꣣सि꣢म् । सं꣡ त्वा꣢ मृजन्त्या꣣य꣡वः꣢ ॥१०७७॥

तम् । त्वा꣣ । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । वचो । वि꣡दः꣢ । व꣣चः । वि꣡दः꣢꣯ । प꣡रि꣢꣯ । कृ꣣ण्वन्ति । धर्णसि꣢म् । सम् । त्वा꣣ । मृजन्ति । आय꣡वः꣢ ॥१०७७॥

Mantra without Swara
तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिम् । सं त्वा मृजन्त्यायवः ॥

तम् । त्वा । विप्राः । वि । प्राः । वचो । विदः । वचः । विदः । परि । कृण्वन्ति । धर्णसिम् । सम् । त्वा । मृजन्ति । आयवः ॥१०७७॥

Samveda - Mantra Number : 1077
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे शिष्य ! (धर्णसिम्) विद्याया ग्रहीतारम्, (तं त्वा) गुरुकुलं प्रविष्टं तादृशं त्वाम् (वचोविदः) निखिलवाङ्मयस्य वेत्तारः (विप्राः) ब्राह्मणा गुरुजनाः (परिष्कृण्वन्ति) परिष्कुर्वन्ति, (आयवः) क्रियाशीलाः आचार्याः [यन्ति क्रियातत्परास्तिष्ठन्तीति आयवः। इण् गतौ धातोः ‘छन्दसीणः’ उ० १।२ इत्यनेन उण् प्रत्ययः।] (त्वा) त्वाम् (सं मृजन्ति) सम्यक् शोधयन्ति, सद्गुणैः सम्यगलङ्कुर्वन्ति च ॥२॥
Essence
गुरूणामिदं कर्त्तव्यं यत्ते विद्यायाः सदाचारस्य च दानेन शिष्याणां हृदयानि परिष्कृतानि शुद्धान्यलङ्कृतानि च कुर्वन्तु ॥२॥
Subject
अथ पुनरपि गुरुशिष्यविषयमेवाह।
Footnote
१. ऋ० ९।६४।२३, ‘धर्णसिम्’ इत्यत्र ‘वे॒धसः॑’।