Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1076

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣡न्द्रा꣢येन्दो म꣣रु꣡त्व꣢ते꣣ प꣡व꣢स्व꣣ म꣡धु꣢मत्तमः । अ꣣र्क꣢स्य꣣ यो꣡नि꣢मा꣣स꣡द꣢म् ॥१०७६॥

इ꣡न्द्रा꣢꣯य । इ꣣न्दो । मरु꣡त्व꣢ते । प꣡व꣢꣯स्व । म꣡धु꣢꣯मत्तमः । अ꣣र्क꣡स्य꣢ । यो꣡नि꣢꣯म् । आ꣣स꣡द꣢म् । आ꣣ । स꣡द꣢꣯म् ॥१०७६॥

Mantra without Swara
इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । अर्कस्य योनिमासदम् ॥

इन्द्राय । इन्दो । मरुत्वते । पवस्व । मधुमत्तमः । अर्कस्य । योनिम् । आसदम् । आ । सदम् ॥१०७६॥

Samveda - Mantra Number : 1076
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) ज्ञानरसागार आचार्य ! (मधुमत्तमः) अतिशयेन मधुरः त्वम् (मरुत्वते) उत्कृष्टप्राणवते (इन्द्राय) शिष्याय मह्यम् (पवस्व) ज्ञानरसं प्रवाहय। अहम् (अर्कस्य) पूजनीयस्य तव (योनिम्) विद्यागृहम्, गुरुकुलम् (आसदम्) आगतोऽस्मि ॥१॥
Essence
गुरुकुलं प्रविष्टेभ्यश्छात्रेभ्यो विद्वांसो मधुरस्वभावा गुरवः प्रेम्णा सर्वा विद्याः प्रयच्छेयुः, शिष्याश्च तान् श्रद्धया सत्कुर्युः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४७२ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र गुरुशिष्यविषयो वर्ण्यते।
Footnote
१. ऋ० ९।६४।२२, ‘अर्कस्य’ इत्यत्र ‘ऋ॒तस्य॒’। साम० ४७२।