Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1074

1875 Mantra
Devata- इन्द्राग्नी Rishi- श्यावाश्व आत्रेयः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
तो꣣शा꣡सा꣢ रथ꣣या꣡वा꣢ना वृत्र꣣ह꣡णाप꣢꣯राजिता । इ꣡न्द्रा꣢ग्नी꣣ त꣡स्य꣢ बोधतम् ॥१०७४॥

तोशा꣡सा꣢ । र꣣थया꣡वा꣢ना । र꣣थ । या꣡वा꣢꣯ना । वृ꣣त्रह꣡णा꣢ । वृ꣣त्र । ह꣡ना꣢꣯ । अ꣡प꣢꣯राजिता । अ । प꣣राजिता । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । त꣡स्य꣢꣯ । बो꣣धतम् ॥१०७४॥

Mantra without Swara
तोशासा रथयावाना वृत्रहणापराजिता । इन्द्राग्नी तस्य बोधतम् ॥

तोशासा । रथयावाना । रथ । यावाना । वृत्रहणा । वृत्र । हना । अपराजिता । अ । पराजिता । इन्द्राग्नी । इन्द्र । अग्नीइति । तस्य । बोधतम् ॥१०७४॥

Samveda - Mantra Number : 1074
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्राग्नी) जीवात्मप्राणौ नृपतिसेनापती वा ! (तोशासा२) तोशसौ सन्तुष्टिकरौ। [तुष प्रीतौ, बाहुलकादौणादिकः असच् प्रत्ययः। मध्यस्थस्य अत्त्वस्य दीर्घश्छान्दसः। वर्णव्यत्ययेन षकारस्य तालव्यादेशः।] (रथयावाना) रथयावानौ रथेन देहरथेन विमानादियानेन वा गन्तारौ। [रथोपपदात् या प्रापणे धातोः छन्दसीवनिपौ च वक्तव्यौ। वा०, अ० ५।२।१२२ इत्यनेन वनिप् प्रत्ययः।] (वृत्रहणा) शत्रुविघ्नपापादीनां हन्तारौ, (अपराजिता) अपराजितौ च युवाम् (तस्य) तत्तत्कर्मणः (बोधतम्) कर्तुं कारयितुं च जानीतम् ॥२॥
Essence
जीवात्मप्राणौ नृपतिसेनापती च नेतारौ वृत्वा वैयक्तिकी सामाजिकी राष्ट्रिया चोन्नतिः सर्वैः साधनीया ॥२॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ८।३८।२। २. तोशासा शत्रून् हिंसन्तौ—इति सा०। दीप्तिसम्पन्नौ—इति वि०।