Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1073

1875 Mantra
Devata- इन्द्राग्नी Rishi- श्यावाश्व आत्रेयः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣣ज्ञ꣢स्य꣣ हि꣢꣫ स्थ ऋ꣣त्वि꣢जा꣣ स꣢स्नी꣣ वा꣡जे꣢षु꣣ क꣡र्म꣢सु । इ꣡न्द्रा꣢ग्नी꣣ त꣡स्य꣢ बोधतम् ॥१०७३॥

य꣣ज्ञ꣡स्य꣢ । हि । स्थः । ऋ꣣त्वि꣡जा꣢ । सस्नी꣢꣯इ꣡ति꣢ । वा꣡जे꣢꣯षु । क꣡र्म꣢꣯सु । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । त꣡स्य꣢꣯ । बो꣣धतम् ॥१०७३॥

Mantra without Swara
यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु । इन्द्राग्नी तस्य बोधतम् ॥

यज्ञस्य । हि । स्थः । ऋत्विजा । सस्नीइति । वाजेषु । कर्मसु । इन्द्राग्नी । इन्द्र । अग्नीइति । तस्य । बोधतम् ॥१०७३॥

Samveda - Mantra Number : 1073
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्राग्नी) जीवात्मप्राणौ नृपतिसेनापती वा ! युवाम् (यज्ञस्य) देहयज्ञस्य राष्ट्रयज्ञस्य वा (हि) निश्चयेन (ऋत्विजा) ऋत्विजौ, सञ्चालकौ (स्थः) वर्तेथे, (वाजेषु) विज्ञानेषु (कर्मसु) क्रियासु च (सस्नी) निष्णातौ स्थ। [ष्णा शौचे धातोः ‘आदृगमहनजनः किकिनौ लिट् च’ अ० ३।२।१७१ इति किन् प्रत्ययः। लिड्वद्भावाद् धातोर्द्वित्वम्।] युवाम् (तस्य) तं देहयज्ञं राष्ट्रयज्ञं वा। [द्वितीयार्थे षष्ठी।] (बोधतम्) कर्तुं कारयितुं च जानीतम् ॥१॥
Essence
जीवात्मप्राणयोराधिपत्ये वैयक्तिकं देहयज्ञं सम्यक् सञ्चाल्य नृपतिसेनापत्योः सहयोगेन राष्ट्रमुन्नेतव्यम् ॥१॥
Subject
तत्रादाविन्द्राग्निनाम्ना जीवात्मप्राणौ नृपतिसेनापती च सम्बोधयति।
Footnote
१. ऋ० ८।३८।१।